SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [प्रथमपरि० सर्वसाधारणत्वाचातो न तन्नियमः । चादृष्टस्यापि प्रतिनियमः सिद्धः; तस्यात्मनोऽत्यन्तभेदात् समवायस्यापि सर्वत्राविशेषात्। "येनात्मना यन्मनः प्रेर्यते तत्तस्य' इत्ययुक्तम्, अनुपलब्धस्य प्रेरणासस्वात्। ५ किञ्च, ईश्वरस्यापि स्वसंविदितज्ञानानभ्युपगमे सदसवर्गः कस्यचिदेकज्ञानालम्वनोऽनेकत्वात्पञ्चाङ्गुलवत्' इत्यत्र पक्षीकृतै कदेशेनं व्यभिचारः-तज्ज्ञानान्यसदसद्वर्गयोरनेकत्वाविशेषेप्येकज्ञानालम्बनत्वाभीवादेकशाखाप्रभवत्वानुमानवेत् । खसंविदित त्वाभ्युपगमे चास्य अनेनैवै प्रमेयत्वहेतोर्व्यभिचार इत्युक्तम् । १० 'अस्मदादिज्ञानापेक्षया ज्ञानस्य ज्ञानान्तरवेद्यत्वं साध्यते' इत्यत्राप्युक्तम् । किञ्चाये जाने सति, असति वा द्वितीयज्ञानमुत्पद्यते ? सति चेत्-युगपज्ज्ञानानुत्पत्तिविरोधः । असति चेत्, कैस्य तद्धाहकम् ? असतो ग्रहणे द्विचन्द्रादिज्ञानवदस्य भ्रान्तत्वप्रसँङ्गः। १५ किञ्च, अस्मदादीनां तज्ज्ञानान्तरं प्रत्यक्षम् , अप्रत्यक्षं वा। यदि प्रत्यक्षम्-स्वतः, ज्ञानान्तराद्वा? स्वतश्चेत्, प्रथममप्यर्थज्ञानं स्वतः प्रत्यक्षमस्तु। ज्ञानान्तरात्प्रत्यक्षत्वे तदपि ज्ञानान्तरं ज्ञानान्तरात्तत्यक्षमित्यनवस्था । अप्रत्यक्षं चेत् कथं तेनाद्यज्ञानग्रहणम् ? स्वयः १ किञ्च । २ अस्येदमदृष्टमिति । ३ आत्मसु गगनादौ । ४ परैः । ५ द्रव्यगुणकर्मसामान्यविशेषसमवायरूपः सर्गः। ६ प्राक्प्रध्वंसेतरेतरात्यन्ताभावरूपोऽसद्वर्गः। ७ पारिशेष्यादीश्वरस्य । ८ गुणरूपेन विज्ञानेन । ९ सद्वर्गेण । १० ईश्वर । ११ इन्दः । १२ ईश्वरज्ञानान्यपदार्थयोरेकशानालम्बनत्वे वसंविदितत्वप्रसङ्गः। १३ पक्कानि एतानि फलानि। १४ एवं । १५ हेतुः। १६ व्यभिचारपरिहारार्थ । १७ परैः। १८ ईश्वरस्य । १९ गुणरूपेण महेश्वरज्ञानेन। २० स्वभावालम्ब. नादिति । २१ स्वभावालम्बनादित्यादि । २२ अस्मदादेः। २३ शानान्तरम् । २४ मवन्मते । २५ शानस्य । २६ अर्थशानं भ्रान्तमसद्ब्रहणात् । २७ द्वितीयम् । __1 "नच येनात्मना यन्मनः प्रेर्यते तत्तत्सम्बन्धि इति प्रतिनियमः अदृष्टवदात्मनोऽपि अचेतनत्वेन तत्प्रत्यप्रेरकत्वात् । चेतनत्वेऽपि नानुपलब्धस्य प्रेरणम् ।" सन्मति० टी० पृ० ४७७, न्यायकुमु० पृ० २७२। 2 "किंच, स्वसंविदितज्ञानानभ्युपगमे 'सदसद्वर्गः कस्यचिदेकज्ञानालम्बनः अनेकत्वात्पञ्चाङ्गुलवत्' इत्यत्र पक्षीकृतैकदेशेन व्यभिचारः, तज्ज्ञानान्यसदसद्वर्गयोरनेकत्वाविशेषेऽपि एकशानालम्बनत्वाभावात् एकशाखाप्रभवत्वानुमानवत् ।" सन्मति० टी० पृ० ४७७ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy