________________
१३२
कलमान्डै [प्रथमपरि० वयन्ति तस्य सा' इस मित्रम्, दर्शवादीनामपि प्रतिनियमासिद्धः। समकामाले श्रद्धायाश्च प्रतिनियमः इत्यप्यसमीक्षिताभिधानम्, तन्य पट्पदार्थपरीक्षायां निराकरिज्यामाणत्वात् ।
ऐलेलेतदपि प्रत्याख्यातम् 'ज्ञानं ज्ञानान्तरवेद्य प्रमेयात्वात्पटा. ९ दिवत् सुखसंवेदनेन हेतोर्व्यभिचारान्महेश्वरज्ञानेन च, तस्य शानान्तरावेद्यत्वेपि प्रमेयत्वात् । तस्यापि ज्ञानान्तरप्रत्यक्षत्वेऽन
१ दर्शनादीनाम् । २ सुखदुःखादेः स्वसंविदितत्वसमर्थनपरेण ग्रन्थेन। ३ यौगमतमपि ( तदेव योगमतं दर्शयति ज्ञानमित्यादिना)। ४ सुखसंवेदनं शानं भवति न तु ज्ञानान्तरवेछ । ५ भा।
1 "नासाधना प्रमाणसिद्धिर्नापि प्रत्यक्षादिव्यतिरिक्तप्रमाणाभ्युपगमो... नापि च तयैव व्यक्त्या तस्या एव ग्रहणमुपेयते येनात्मनि वृत्तिविरोधो भवेत् , अपि त प्रत्यक्षादिजातीयेन प्रत्यक्षादिजातीयस्य ग्रहणमातिष्ठामहे । न चानवस्था, अस्ति किंचित् प्रमाणं यः स्वज्ञानेन अन्यधीहेतुः यथा धूमादि, किंचित्पुनरज्ञातमेव बुद्धिसाधनं यथा चक्षुरादि, तत्र पूर्व स्वज्ञाने चक्षुराद्यपेक्षम् , चक्षुरादि तु ज्ञानानपेक्षमेव ज्ञानसाधनमिति वानवस्था ? बुभुत्सया च तदपि शक्यज्ञानं सा कदाचिदेव कचिदिति नानवस्था ।"
न्यायवा० ता० टी० पृ० ३७०। "विवादाध्यासिताः प्रत्ययान्तरेणैव वेद्याः प्रत्ययत्वात् , ये ये प्रत्ययास्ते सर्वे प्रत्ययान्तरवेद्याः यथा न प्रत्ययान्तरेणैव वेद्याः (१) अविद्यमानस्यावभासेऽतिप्रसंगात ज्ञायमानस्यैवावभासोऽभ्युपेयः । तथा च विज्ञानस्य स्वसंवेदने तदेव तस्य कर्म क्रिया चेति विरुद्धमापयेत । यथोक्तम्---
अङ्गुल्यग्रं यथात्मानं नात्मना स्पष्टमर्हति । स्वांशेन शानमप्येवं नात्मानं ज्ञातुमर्हति ॥ इति । यत् प्रत्ययत्वं वस्तुभूतमविरोधेन व्याप्तम् , तद्विरुद्धविरोधदर्शनात् स्वसंवेदनान्निवर्तमानं प्रत्ययान्तरवेद्यत्वेन व्याप्यते इति प्रतिबन्धसिद्धिः । एवं प्रमेयत्व-गुणत्वसत्वादयोऽपि प्रत्ययान्तरवेद्यत्वहेतवः प्रयोक्तव्याः। तथा च न स्वसंवेदनं विज्ञानमिति सिद्धम् ।"
विधिवि० न्यायकणि० पृ. २६७ । "तस्मात् ज्ञानान्तरसंवेद्यं संवेदनं वेद्यत्वात् घटादिवत् ।"
प्रश० व्यो० पृ० ५२९ । "अनवस्थाप्रसङ्गस्तु अवश्यवेद्यत्वानभ्युपगमेन निरसनीयः...विवादाध्यासितवेदनं वेदनान्तरगोचरः वेदनत्वात् पुरुषान्तरवेदनवत..." प्रश० किरणावली पृ० २८३ ।
2 "महेश्वरार्धशानेन हेतोर्व्यभिचाराद , तस्य ज्ञानान्तरावेद्यत्वेऽपि प्रमेयत्वात् ।" प्रमाणप० पृ० ६० । मुक्त्यनुशा० टी० पृ० १० । न्यायकुमु० पृ० १८३ । स्था० रत्ना० पृ० २२२ ।
"सुखादिसंवेदनेन व्यभिचारी च" सन्मति० टी० पृ० ४७६ ।