SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ १२२ __ प्रमेयकमलनाण्डे प्रथमपरि० ज्ञानकल्पना वावर्थिकल्याच्या सालीयःसनसश्चक्षुरादेश्चान्तर्वहित करणस्य लक्षावात् ततोऽस्य विशेषाभोवाच्छ। अनयोरचेतनत्वाप्रधान मोटर्न करणमित्यप्यसमीचीनम् ; आवेन्द्रियमनासोश्चेतनत्वात् । तत्परोक्षत्वसाधने च सिद्धसाधनम् ; स्वार्थग्रहण५शक्तिलक्षणायाँ लब्धेर्मनसश्च भावकरणस्य छद्मस्थाप्रत्यक्षत्वात् । उज्योगलक्षणं तु भावकरणं नाप्रत्यक्षम् ; स्वार्थग्रहणव्यापारलक्षणस्यास्य स्वसंवेदनप्रत्यक्षप्रसिद्धत्वात् 'घंटादिद्वारेण घटादिग्रहणे उपयुक्तोऽप्यहं घटं न पश्यामि पदार्थान्तरं तु पश्यामि' इत्युपयोगस्वरूपसंवेदनस्याखिलजनानां सुप्रसिद्धत्वात्। क्रियायाः १० करणाविनाभावित्वे चात्मनः स्वसंवित्तौ किङ्करणं स्यात् ? खात्मै वेति चेत्, अर्थवि स एवास्तु किमदृष्टान्यकल्पनया? ततश्चक्षु. रादिभ्यो विशेषमिच्छता ज्ञानस्य कर्मत्वेनाप्रतीतावप्यध्यक्षत्वसभ्युपगन्तव्यम् । फलज्ञानात्मनोः फलत्वेन कर्तृत्वेन चानुभूय मानयोः प्रत्यक्षत्वाभ्युपगमे करणज्ञाने करणत्वेनानुभूयमानेपि १५ सोस्तु विशेषाभावात् । न चाभ्यां सर्वथा करणज्ञानस्य भेदो १ परोक्षशानस्य । २ परोक्षत्वेन । ३ उभयत्र । ४ मुख्यम् । ५ कर्मत्वेनाप्रतीयमानत्वाद्धेतोः। ६ वाह्येन्द्रियाश्रितायाः। ७ अर्थग्रहणशक्तेः । ८ अस्मदादि। ९ अर्धग्रहणव्यापारः। १० तदेव दर्शयति। ११ व्याप्रियमाणः। १२ किञ्च । १३ स्वस्वरूपम्। १४ करण। १५ भेदम्। १६ परेण। १७ करणरूपस्य। १८ अर्थ. परिच्छित्ति। १९ ताद्विः (तासंज्ञा षष्ठयाः। द्विःपदेन द्विवचनं ग्राह्यम् ) । २० परेण। २१ करणज्ञानं प्रत्यक्षमेव स्वस्वरूपेण प्रतिभासमानत्वात्फलशानात्मवत् । २२ स्वरूपेण प्रतिभासाविशेषात् । २३ किञ्च । २४ का (पञ्चमी विभक्तिः)। २५ अन्यथा । ___ 1 "इन्द्रियमनसोरेव करणत्वात् , तयोरचेतनत्वादुपकरणमात्रत्वात् प्रधान चेतनं करणमिति चेन्न; भावेन्द्रियमनसोः परेषां चेतनतयाऽवस्थितत्वात् ।” तत्त्वार्थसो० पृ० ४६ । “मनसश्चक्षुरादेश्चान्तर्बहिःकरणस्य सद्भावात् , ताभ्यां शानस्य परोक्षत्वेन विशेषाभावाच्च । अथ मनश्चक्षुरादिकायादेरचेतनत्वात् शानाख्यं करणं चेतनत्वेन ताभ्यां विशिष्यत इत्युच्यते; तदप्यनुपपन्नम् ; भावरूपयोरिन्द्रियमनसोरपि चेतनत्वात्""" स्था० रत्ना० पृ० २१४ । 2 "अर्थग्रहणशक्तिः लब्धिः, उपयोगः पुनरर्थग्रहणव्यापारः।" ___ लघी० स्ववि०, न्यायकुमु० पृ० ११५ । 3 “चक्षुरादिद्वारेणोपयुक्तोऽहं घटं पश्यामीत्युपयोगस्वरूपसंवेदनस्य सर्वेषामपि प्रसिद्धत्वात् ।" स्या० रता० पृ० २१४ । 4 "तदेव तस्य फलमिति चेत् ; प्रमाणादभिन्न भिन्नं वा ?.. कथञ्चिदभिन्नमिति चेन्न सर्वथा करणशानस्याप्रत्यक्षत्वं विरोधात् ।" तत्त्वार्थश्लो. पृ० ४६ । । "किंच, आत्मप्रमाणफलाम्यां सकाशात् करणशानस्य सर्वथा भेदः, कथञ्चिद्वा ? स्था० रत्ना० पृ०२१४ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy