________________
सू० ११७] भूतचैतन्यवादः परैरप्यभिव्यक्तेरभीष्टत्वात् पृथिव्यादिभूतचतुष्टयवत् । नन्वेवं पिष्टोदकादिभ्यो मदशत्यभिव्यक्तिरपि न स्यात् तत्राप्युक्तविकल्पानां समानत्वादित्यप्यसाम्प्रतम् । तत्रापि द्रव्यरूपतया प्राक्सत्त्वाभ्युपगमात्, सकलभावानां तद्रूपेणानाद्यनन्तत्वात् ।
शरीरेन्द्रियविषयसंज्ञेभ्यश्चैतन्यस्योत्पत्त्यभ्युपगमात् 'तेभ्यश्चै-५ तम्' इत्यत्र 'उत्पद्यते' इति क्रियाध्याहारान्नाभिव्यक्तिपक्षभावी दोपोऽवकाशं लभते इत्यन्यः । सोपि चैतन्यं प्रत्युपादानकारणत्वम् , सहकारिकारणत्वं वा भूतानाम् इति पृष्टः स्पटमाचष्टाम् ? न तावदुपादानकारणत्वं तेपाम् ; चैतन्ये भूतान्वयप्रसङ्गात् , सुवर्णोपादाने किरीटादौ सुर्वर्णान्वयवत् , पृथिव्याधुपादाने १० काये पृथिव्याद्यन्वयवद्वा । न चात्रैवम् ; न हि भूतसमुदयः पूर्वमचेतनाकारं परित्यज्य चेतनाकारमाददा(धा)नो धारणेरणद्रवोष्णतालक्षणेन रूपादिमत्त्वस्वभावेन वा भूतस्वभावेनान्वितः प्रेमाणप्रतिपन्नः, चैतन्यस्य धारणादिखभावरहितस्यान्तःसंवेदनेनानुभवात् । न च प्रदीपाँधुपादानेन कजलादिना प्रदीपाद्यनन्वितेन १५ व्यभिचारः; रूपादिमत्त्वमात्रेणात्राप्यन्वयदर्शनात् । पुद्गलविकाराणां रूपादिमत्वमात्राव्यभिचारात् । भूतचैतन्ययोरप्येवं सत्वादिक्रियाकारित्वादिधर्फ़रन्दयसद्भावात् उपादानोपादेयभावः स्यादित्यप्यसमीचीनम् ; जलानलादीनामप्यन्योन्यमुपादानोपादेयभावप्रसङ्गात् , तद्धमैस्तत्राप्यन्वयसद्भावाविशेषात् । .. किञ्च, 'प्राणिनामाद्यं चैतन्यं चैतन्योपादानकीरणकं चिद्विवर्त्त
१ जैनैः । २ यथा पृथिव्यादिभूतचतुष्टयस्य पुद्गलरूपेण सतः घटादिपर्यायरूपेणासतश्चक्रादिकारणादाविर्भावस्तथा प्रकृतस्यापि । ३ चैतन्याभिव्यक्तिनिषेधप्रकारेण । ४ मदशक्तौ । ५ सूत्रे। ६ अविद्धकर्णश्चार्वाकविशेषः। ७ जैनैः । ८ अन्यथा । ९ चैतन्यं भूतान्वयि तदुपादानत्वात् । यद्यदुपादानं तत्तदन्वयि यथा मृद्रूपोपादानको घटः। १० पीतत्वभासुरत्व । ११ धारणादि । १२ उपसंहारः। १३ प्रत्यक्ष । १४ प्रदीपादि उपादानं यस्य । १५ कज्जले प्रदीपरूपादिमत्त्वमात्रान्वयप्रकारेण । १६ जलानलादयः परस्परमुपादानोपादेयभाववन्तः सत्त्वादिधर्फरन्वितत्वात्तद्वतचैतन्यवत् । १७ चैतन्यं धमि भूतोऽन्वयि भवतीति साध्यो धर्मः । तदुपादानत्वाद् यथा मृदुपादानको घटो मृदन्वयी। १८ तज्जन्मापेक्षया । १९ पूर्वजन्मचैतन्य । २० बसः । २१ पूर्वचित् । २२ प्रमेय । (पर्याय ) 1 "भूतानि किमुपादानकारणं चैतन्यस्य सहकारिकारणं वा ?" तत्त्वसं० पं० पृ० ५२६ । युक्त्यानु० टी० पृ० ७८ । न्यायकुमु० पृ० ३४४ । 2 "प्राणिनामायं चैतन्यं चैतन्योपादानकारणकं चिद्विवर्त्तत्वात् मध्यचैतन्यविवर्त्तवत् । तथा अन्त्यचैतन्यपरिणामः चैतन्यकार्यः तत एव तद्वत् ।" अष्टसह० पृ० ६३॥