________________
सू० ११७]
साकारज्ञानवादः
१०७
७
"अर्थन घटयेत्येनां न हि मुक्ता(क्त्वा)र्थरुपताम् । तस्मात्प्रमेयाँधिगते प्रमाण मेयरूपता॥"[प्रमाणवा० ३।३०५] इत्यनल्पतमोविलसितम् ; यतो घंटयति सम्बन्धयतीति विवक्षितं ज्ञानम् , अर्थसम्वद्धमर्थरूपता निश्चाययतीति वा? प्रथमपक्षोऽयुक्तः, न बर्थसम्वन्धो ज्ञानस्यार्थरूपतया क्रियते, किन्तु ५ खैकारणैस्तज्ज्ञानमर्थसम्वद्धमेवोत्पाद्यते । न खलु ज्ञानमुत्पद्य पश्चादर्थेन सम्वध्यात् । न चार्थरूपता ज्ञानस्याथै सत्वन्धकारणं तादात्म्याभावानुषङ्गात् । द्वितीयपक्षोप्यलम्भाव्यः; सम्बन्धासिद्धेः। न खलु ज्ञानगतार्थरूपता अर्थसम्बद्धन ज्ञानेन सहचरिता क्वचिदुपलब्धा येनार्थसम्वद्धं ज्ञानं सा निश्चाययेत् । विशिष्टविष-१० योत्पाद एव च ज्ञानस्यार्थेन सम्वन्धः, न तु संश्लेषात्मकोऽस्य ज्ञानेऽसम्भवात् । स चेन्द्रियैरेव विधीयते इत्यर्थरूपतासाधनप्रयासो वृथैव । न चैव सर्वत्रासौ प्रसज्यते; यतो निराकारत्वेन्यववोधस्य इन्द्रियवृत्त्या पुरोवर्तिन्येवार्थे नियमितत्वान्न सर्वार्थघटनप्रसङ्गः। 'कस्मात्तैस्तत्र तेनियम्यते' ? इत्यैत्र वस्तुस्वभावैरुत्तरं १५ वाच्यम् । न हि कारणानि कार्योत्पत्तिप्रतिनियमे पर्यनुयोगमर्हन्ति तत्र तस्य वैफल्यात् । सरकारदेपि चायं पर्यनुयोगः समानः
१ अन्यत्सन्निकर्षादिकं कर्तृ। २ निर्विकल्पका बुद्धिम् । ३ यस्मात् । ४ प्रमाणं न घटयतीति सम्बन्धः। ५ बुद्धः। ६ फलज्ञानस्य । ७ सम्बन्धित्वेन। ८ नैयायिकादिकल्पितम् । ९ ज्ञानस्यार्थरूपता । १० अर्थरूपता। ११ मा (?) । १२ कीं। १३ भा। १४ इन्द्रियादिभिः। १५ अर्थसम्बन्धज्ञानार्थरूपतयोः। १६ किञ्च । १७ अन्यथा । १८ अर्थरूपताज्ञानयोः। १९ भा। २० पूर्वस्मिन्विकल्पे इत्यादि द्रष्टव्यम् । २१ बसः। २२ ईप् । २३ किञ्च । २४ ज्ञाने। २५ शाने । २६ अर्थरूपताभावे । २७ असन्निहितेऽप्यर्थे । २८ ज्ञानोत्पादलक्षणः सम्बन्धः । २९ व्यापारेण। ३० कारणात् । ३१ शानम् । ३२ पूर्वपक्षे। ३३ अस्मामिअनैः। ३४ आक्षेपम् । ३५ किञ्च ।
"अर्थेन घटयत्यनां न हि मुक्त्वार्थरूपताम् । अन्यत्स्वभेदो ज्ञानस्य भेदकोऽपि कथञ्चन ॥ ३०५ ॥
तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता।" प्रमाणवा० । 2 “किञ्च, घटयतीति सम्वन्धयति इत्यभिप्रतम् , अर्थसम्बद्धं निश्चाययति इति वा ?"
न्यायकुमु० पृ० १७१ । ! 3 साकारत्वेऽपि चायं पर्यनुयोगः समानः । तथाहि-साकारमपि ज्ञानं किमिति नीलादिकमेव पुरोवति तत्सन्निहितमेव च व्यवस्थापयति ? तेनैव तथा तस्य जननादिति चेत् समानमेतन्निराकारेऽपि ।"
सन्मति० टी० पृ० ४६० ।
न्यायकुमु० पृ० १७१।
1