________________
प्रमेयकमलमार्तण्डे
प्रथमपरि०
न चैववादिनः स्वरूपस्या खंतोऽर्वगतिर्घटते समकालख्यास्य प्रतिपत्तावर्थवत् प्रसङ्गात् । न च खरूपस्य ज्ञानतादात्स्यानीय दोषः तादात्स्येषि समानेतरकालविकल्पानतिवृत्तः। ननु शानमेव स्वरूपम् , तत्कथं तंत्र भेदभावी विकल्पोऽवतरतीति चेत् ? कुत ५एतत् ? तथा प्रतीतेश्चेत् ; इयं यद्यप्रमाणं कथमतस्तत्सिद्धिरतिप्रसझात् ? प्रमाणं चेत् । तर्हि स्वपरग्रहणस्वरूपताप्यस्य तथैवास्त्वलं तत्रापि तद्विकल्पकल्पनया प्रत्यक्षविरोधात् । तन्न स्वतोऽवभासमानत्वं हेतुरसिद्धत्वात्।
नापि परतो वाद्यसिद्धत्वात् । न खलु सौगतः कस्यचित्परतोऽ१० वभासमानत्वमिच्छति। "नान्योऽनुभाव्यो वुझ्यास्ति तस्या नानु
भैवोपरः”[प्रमाणवा० ३३३२७ / इत्यभिधानात् । कथं साध्यसा
१ समकालो भिन्नकालो वार्थों न ग्राह्य इत्येवं वादिनो योगाचारस्य । २ ज्ञानस्य । ३ शानात् । ४ परिच्छित्तिः। ५ देशान्तरस्थमपि स्वरूपं गृह्णीयात्समकालत्वे तदुत्पत्तिलक्षणसम्बन्धाभावात्। ६ देशान्तरस्थमपि स्वरूपं गृह्णीयात्समकालत्वात् । ७ दूषणम् । ८ अर्धवत्प्रसङ्गलक्षणः। ९ भिन्न । १० अनतिक्रमणात् । ११ अपि न कुतोऽपि । १२ ज्ञानस्वरूपे । १३ प्रमाणात् । १४ शानमेव स्वरूपं । १५ शानस्य स्वरूपतया। १६ ज्ञानमेव स्वरूपसिद्धिः। १७ संशयादेरपि तत्सिद्धिः । १८ शानस्य । १९ अर्थग्रहणे। २० समानेतरकाल इत्यादि । २१ अन्यथा। २२ जैनस्य । २३ ज्ञानात्। २४ योगाचार। २५ अर्थः। २६ ग्राह्यः। २७ ग्राहकः। २८ ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते । ( इति उत्तरार्द्ध श्लोकस्य )। २९ सौगतैः परतः प्रतिभासानभ्युपगमे । ३० किञ्च ।
1 "नान्योनुभाव्यस्तेनास्ति तस्या नानुभवोऽपरः ।
तस्यापि तुल्यचोद्यत्वात् स्वयं सेव प्रकाशते ॥ प्रमाणवा० ३३३२७ । "बुद्ध्या योऽनुभूयते स नास्ति परः, यथा अन्योऽनुभाव्यो नास्ति तथा निवेदितम् । तस्यास्तर्हि परोऽनुभवो बुद्धरस्तु, न; तत्रापि ग्राह्यग्राहकलक्षणभावः । परं हि संवेदनस्वरूपेऽवस्थितं कथं परस्यानुभवः साक्षात्करणादिकं प्रत्याख्यातम् । तत्संवेदनानुप्रवेशे च तयोरेकत्वमेव स्यात् , तथा च स्वयं सैव प्रकाशते न ततः पर इति स्थितम् ।"
प्रमाणवार्तिकालंकार । 2 "नच प्रकाशनलक्षणस्य हेतोः शानत्वेन व्याप्तिसिद्धिर्यतः स्वरूपमात्रपर्यवसितं शानं सर्वमवभासनं शान (नत्व ) व्याप्तमिति नाधिगन्तुं समर्धम् । नच सकलसम्ब. ध्यप्रतिपत्तौ सम्बन्धप्रतिपत्तिः । उक्तं च
द्विष्ठसम्बन्धसंवित्तिर्नैकरूपप्रवेदनात् । द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम् ॥"
सन्मति० टी० पृ० ४८३ ।