________________
३८
प्रसयकसलमार्तण्डे प्रथमपरि० प्यसमीचीनम् ; अनुसानेदि समानत्वात् । शब्दप्रभवत्वादित्यप्यसाम्प्रतम्, शंब्दाच्या क्षात्यामामाण्यप्रसङ्गात् । ग्राह्मार्थ विना तन्मात्रप्रभवलं चासिद्धम् ; नीलादिविकल्पानां सर्वदार्थ सत्येव भावात् । कैल्यचित्तु तमन्तरेणापि भावोऽध्यक्षेणि समानः ५द्विचन्द्रादिप्रत्यक्षस्यार्थाभावेपि भावात् । भ्रान्ताभ्रान्तस्यान्यत्वमत्राणि समानम् ।
किञ्च, विकल्पाभिधानयोः कार्यकारणत्वानियमकल्पनायाम्किञ्चित्पश्यतः पूर्वानुभूतंतत्सदृशंस्मृतिर्न स्यात् तन्नामविशेषा
स्मरणोत् , तदस्मरणे तदभिधानाप्रतिपत्तिः, तदप्रतिपत्तौ तेन १० तैदयोजनम्, तदयोजनात्तदनध्यवसाय इत्यविकल्पाभिधानं जगदापद्येत।
किञ्च, पदस्य वर्णानां च नमान्तरस्मृतावसत्यामध्यवसायः, सत्यां वा ? तत्राद्यपक्षे-नाम्नो नामान्तरेण विनापि स्मृतौ केवलार्थाध्यवसायः किन्न स्यात् ? 'स्वाभिधानविशेषापेक्षा एवार्थी १५ निश्चयैर्निश्चीयन्ते' इत्येकान्तत्यागात् । द्वितीयपक्षे तु-अनवस्थावर्णपदाध्यवसायेप्यपरनामान्तरस्यावश्यं स्मरणात् ॥ छ ।
१ शब्दजनितप्रत्यक्षस्य । २ घटः कास्ते तत्रास्ते इत्यादि । ३ शब्द । ४ विकल्पस्य । ५ विकल्पस्य । ६ वन्ध्यासुताद्यर्थ । ७ नीलं। ८ नुः। ९ तेन दृश्येन नीलेन सदृशं पूर्वानुभूतं च तच्च तत्सदृशं च तस्य स्मृतिः। १० स्मृतिर्विकल्पः । ११ पूर्वानुभूततत्सदृशार्थस्मरणात्पूर्व नामविशेषस्य पूर्वानुभूततत्सदृशार्थस्मरणोत्पादकस्याभावात्तस्य तत्कार्यतया पूर्वानुभूतत्सदृशार्थनामविशेषस्मृत्यनन्तरभावित्वात् । १२ नामविशेष। १३ नाम। १४ शब्देन । १५ नीलशब्देनेदं वाच्यमिति योजनाभावः। १६ दृश्यस्य नीलस्य। १७ दृश्यमाने नीले विकल्पानुत्पत्तिः । १८ विकल्पाभिधानशून्यं । १९ गौरित्यस्य । २० गकारऔकारविसर्जनीयानां । २१ अभिधान । २२ नामनिरपेक्ष । २३ विकल्पैः ।
1 तु०-"तस्मादयं किञ्चित्पश्यन् तत्सदृशं पूर्व दृष्टं न स्मर्तुमर्हति तन्नामविशेषास्मरणात् , तदस्मरन्नैव तदभिधानं प्रतिपद्यते, तदप्रतिपत्तौ तेन तन्न योजयति, तदयोजयन्नाध्यवस्यतीति न क्वचिद्विकल्पः शब्दो वेत्यविकल्पाभिधानं जगत्स्यात्"।
अष्टश० अष्टसह ० पृ० ११९ । स्या० रला० पृ० ७७॥ 2 तु०-"नाम्नो नामान्तरेण विनापि स्मृतौ केवलार्थव्यवसायः किन स्यात्" तन्नामान्तरपरिकल्पनायामनवस्था" । (अष्टश०) "तदुक्तं न्यायविनिश्चये (११६) अभिलापतदंशानाममिलापविवेकतः । अप्रमाणप्रमेयत्वमवश्यमनुषज्यते" ॥ अष्टसह० पृ० १२०।
3 बौद्धाभिमतनिर्विकल्पकप्रत्यक्षस्य खण्डनमनयैवानुपूर्व्या-अष्टश० अष्टसह० पृ० ११८, प्रमाणप० पृ० ५३, न्यायकु० च० प्र० परि०, सम्मति ०टी० पृ. ४९९। स्या० रत्ना० पृ० ७६ । इत्यादिषु द्रष्टव्यम् ।