________________
प्रमेयकमलमार्तण्डे प्रथमपरि० न्यादिरूपतापंत्तिः। क्रमेण सम्बन्धे सकलकारकधर्मता साकल्यस्य न स्यात्-यदैव हि तस्यैकेन हि सम्बन्धो न तदैवाऽन्येनेति ।
नापि तत्कार्य साकल्यम्-नित्यानां तजननखभावत्वे सर्वदा तदुत्पत्तिप्रसक्तिः, एकप्रमाणोत्पत्तिसमये संकलतदुत्पाद्यप्रमाणो.५ त्यत्तिश्च स्यात् । तथाहि-यदा यजनकमस्ति-तत्तदोत्पत्तिमत्प्रसिधम् , यथा तत्कालाभिमतंप्रमाणम्, अस्तिच पूर्वोत्तरकालभाविनां सर्वप्रमाणानां तदा नित्याभिमतं जनकमात्मादिकं कारणमिति । आत्मादिकारणे सत्यपि तेषामनुत्पत्तौ ततः कदाचनाप्युत्पत्तिर्न स्यादिति सकलं जगत् प्रमाणविकलमापद्यत । आत्मादौ तत्क१० रणसमर्थे सत्यपि स्वयमेव तेषां यथाकालं भावे तत्कार्यताविरोधः-तस्मिन् सत्यप्यभावात्-स्वयमेवान्यदा भावात् । न च स्वकालेपि तत्सद्भावे भावात्तत्कार्यता; गगनादिकार्यताप्रसक्तेः। न च तस्यापि, तत्प्रति कारणत्वस्येष्टेरदोषोयमिति वक्तव्यम् :
आत्माऽनात्मविभागाभावप्रसङ्गात् । यत्र प्रमितिः समवेता १५.सोत्रात्मा नान्य इत्यप्यनालोचितवचनम् ; समवायाँऽसिद्धौ समवेतत्वाऽसिद्धेः । यदा यत्र यथा यद्भवति तदा तत्र तथाऽऽत्मादेस्तत्करणसमर्थत्वान्नैकदा सकलप्रमाणोत्पत्तिप्रसक्तिरित्यप्यसम्भाव्यम्, तत्स्वभावभूतसामर्थ्य भेदमन्तरेण कार्यस्य कालौदिभेदायोगात्, अन्यथा दृष्टस्य पृथिव्यादिकार्यनानात्वस्याऽदृष्ट२० यार्थिवादिपरमाण्वादिकारणचातुर्विध्यं किमर्थ समर्थ्यते ? नित्यस्वभावमेकमेवे हि किञ्चित्समर्थनीयम् । यथा च कारणजातिभेदमन्तरेण कार्यभेदोनोपपद्यते तथा तच्छक्तिभेदमन्तरेणापि । ने च
, १ अवयवी । २ रूपमिव रूपं यस्य तद्धर्मस्य सामान्ये ये दोषास्तेऽत्रापि स्युः। ३ कारकेण.। ४ नेत्रोद्घाटनयोग्यदेशगमनादिः। ५ आत्माकाशकालदिग्मनसाम् । ६ कार्यलक्षणसाकल्यप्रमाणस्य । ७ सकलपदार्थपरिच्छेदककार्यलक्षणसाकल्यप्रमाणानानुत्पत्तिः स्यात् । ८ कारणाऽधीनानि कार्याणि यतः । ९ उपनयः । १० विवक्षितकालाऽभिमतकार्योत्पत्तिसमये। ११ कार्यविकलम् । १२ युगपत् प्रमाणकार्यस्य । १३.अन्यथाः। १४ परः । १५ गगनादिः। १६ चतुर्थपरिच्छेदेऽयं निराकरिष्यते । .१७ परः। १८ आत्मादि । १९ नानाकार्याणि विभिन्नशक्तिहेतुका नि विभिन्नकार्यत्वात् पृथव्यादिभेदकार्यवत् । २० सर्वेषां कार्याणां युगपदुत्पत्तिर्यतः। २१ देश. खभावः। २२ तत्सामर्थ्यभेदं विनापि कार्यस्य कालादिभेदो भविष्यतीति चेत् । .२३. प्रत्यक्षस्य । २४ आप्यतैजसवायवीय । २५ द्यणुकादि । २६ ब्रह्मादि । .२७ कारणम् । २८ पार्थिवादिजाति । २९ अत्राभिप्रायस्तु योग्यतावच्छिन्नस्वरूपसहकारिसमवधानमेव शक्तिरिति गौतमीयन्यायैकदेशे द्रव्याच्छक्तिरुत्पद्यते चेति जैना वदन्तीति मत्वा दूषणं वदत्यपरःतदूषणपरिजिहीर्षया न चे त्याह ।