________________
त्रयोदशः सर्गः
अथातः प्राचलत्सूरि लसावान् निरालसः । ब्रह्मचर्यप्रतिष्ठादिधर्मकार्ये हि सत्कलः ॥१॥ नाश्लीलालीकजल्पाकसाधुशाली सुशीलवान् । शीलव्रतादिधर्मेषु साधुलोकान् प्रवर्तयन् ॥२॥ श्रीजाबालपुरं पामोत् सूरीन्द्रश्चन्द्रशीतलः । अभ्यायाज्जयमल्लोऽपि वन्दितुं तं च संघयुक् ॥३॥ विधायोत्सवमुत्साहाद् गीतातोद्यस्वनाद्भुतम् । नगरस्यान्तरे सूरिं जयमल्लः समानयत् ॥४॥ स आनयत् परांप्रीति स्वस्यान्येषां च मानसम् । एकस्य हर्षसम्माप्तावन्येषां किं न मुन्नणाम् ।। धन्योऽहमद्य संजातो निरवद्यमनोरथः । अर्हतां भविता चाथ प्रतिष्ठेप्टेत्यचिन्तयत् ॥६॥ पश्य प्रशस्यसूरीश प्रतिष्ठाश्रेष्ठवासरम् । सोऽप्यपश्यन् मुहूर्त च युक्तो मौहर्तिकैस्तदा ॥७॥ प्रथमाषाढपक्षस्य कृष्णपश्चमवासरम् । भासुरं तीर्थकृतिम्बप्रतिष्ठा, प्रवर्तते ॥८॥ इति माह धतोत्साहः सूरिमौंहूर्तिकान्वितः । मन्त्रिणं जयमल्लाख्यं श्रीसुवर्णगिरीश्वरम् ॥९॥ संजातरोमहर्षश्रीसं लेषविदुषो रुषा। देशेभ्यः समस्तेभ्य इभ्यः संघान् समाह्वयत् ॥१०॥ आयानुपरि तस्याहस्ते सङ्कन अन्यदेशतः । ग्रामीणाश्च स्वदेशस्य सर्वलाभाभिलाषिणः ॥११॥ सोऽथ श्रीजिनचैत्यानां प्रतिष्ठाया मुहूर्तकम् । असाधोद् गीतगानोद्यद्वाद्यध्वानं यथाविधि ॥ कृतप्रतिष्ठः सूरीन्द्रः समदीपिष्ठ शिष्टरुक् । निर्मापितप्रतिष्ठश्च मन्त्रीति जयमल्लकः ॥१३॥ तद्यथा-सद्वाससं शुभावासं वासं प्रादाद्गणेश्वरः। साधुभ्यः श्रावकेभ्यश्च पदव्रतविधायकम् ॥१४॥ मन्त्रीशः साधुलोकेभ्यः सदासांसि व्यहारयत् । आहारयदराहारं संघांस्तेभ्यो धनं त्वदात् ॥ षोडशस्य शतस्यास्मिन् पडशीतितमेऽब्दके । प्रथमाषाढपक्षस्य कृष्णे पञ्चमवासरे ॥१६॥ प्रत्यतिष्ठजिनेन्द्राणां प्रतिमाः प्रतिमाग्रिमाः। विजयदेवसूरीन्द्रः श्रीजाबालपुरे वरे ॥१७॥ निवृत्ते च तदा तत्र प्रतिष्ठाया महोत्सवे । मन्त्रिणं प्राह सूरीन्द्रः प्रचलानि त्वदाज्ञया ॥१८॥ मन्त्री पाहाथ सूरीन्द्रं चतुर्मासं कुरु प्रभो। चालयानि नचाहं त्वां चतुर्मासीविधि विना ॥१९॥ अङ्गीकृत्य तदा तस्य रुचिरं वचनाग्रहम् । संग्रहमिव वस्तूनां शस्तानामवसद्गुरुः ॥२०॥
१०-अत्र विदुषशब्दो विद्वत्पर्यायोऽकारान्त औणादिको ज्ञेयः। न रुट् अरुट क्रोधाभावः सन्तोष इत्यर्थः । अत्र नञ्-अभावे तया अरुषा सन्तोषेण इत्यर्थः । ननु रुड् विरुद्धा अरु इत्यपि समासः स्यात् । सत्यं नात्रायं नममासः। कथं अस्मिन् समासे अरुट् शब्दः क्षमापर्यायः स्यात् । न च तदानीं तस्य कस्याचदुपरि कोपः, विना कोपं कथं क्षमेति अभावे एवायं नय-समासः।