SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सर्गः] विनयदेवसूरि-माहात्म्यम् आद्य भेदं समासाद्य वर्तन्ते सागराः कलौ । सागराइति नामानः प्रोच्यन्ते साधवोऽप्यमी॥ विजयदेवसूरीन्द्रसत्यवादिपराजिताः । सागरा इत्यकथ्यन्त तत्मतीपा हि साधवः ॥४१॥ अन्त्यं भेदं समासाद्य विद्यन्ते सागरा हि ये । सागरा इति नामानः प्रोच्यन्ते तेऽपि साधवः॥ विजयदेवसूरीन्द्रकथिताज्ञाविधायकाः । ते सर्वेषामुपादेया इव रत्नसमुच्चयाः ॥४३॥ अथवा सागराः प्रोक्ता द्विविधाः पूर्वसूरिभिः। केचित् मृष्टास्तथा क्षाराः केचिदिति जगस्थितिः।। आहताः मूरिणा येते मृष्टा-अन्येऽन्यथाविधाः । मृष्टाः क्षारा अगस्त्येन पीतास्त्यक्ता इवाऽभवन् । सूरिप्रतापसन्तप्तो निश्शक्तिर्मुक्तिसागरः । काकनाशं ननाशेव तस्थौ तत्रैव निष्पभः ॥४६॥ अथ श्रीभिन्दिमालादिद्रङ्गवासिमहाजनाः । संरक्षितुं चतुर्मासी श्रीसूरिं समाह्वयन् ॥४७॥ इयता च समागच्छन् वींझेवाद्रङ्गवासिनः । संभूय श्रावकाः सर्वे निश्चित्यागीकृतं ह्यदः ॥४८॥ अन्ये सभ्या यदीभ्याश्च श्रावका द्रङ्गवासिनः । रक्षिष्यामश्चतुर्मासी तथाप्यत्र वयं गुरुम ॥४९॥ पाहुः सूरिं प्रणम्यैवं चतुर्मासी गुरो कुरु । वयं ग्राम्याः क्व चास्माकं त्वत्पदाब्जरजोऽन्यतः॥५०॥ तीर्थ श्रीवरकाणाख्यं वन्दस्व चिरमिन्द च । त्वदीयाः सेवकाः स्मो नः कृतार्थान् कुरु च ध्रुवम् ॥ भिन्दिमालादिकद्रङ्गवासिनः श्रावकास्तदा । तूष्णींशीला विलक्षाश्च व्यराजचित्रिता इव ॥१२॥ विज्ञाय निश्चयं तेषां चातुर्मासकरक्षणे । तूष्णीकः सूरिरप्यास्थादङ्गीकृत्य च तद्वचः ॥५३॥ न विधास्ये चतुर्मासी कथयिष्यामि चेदिति । एते दुःखं करिष्यन्ति यद्ग्राम्या नेति तिष्ठति (-यद्ग्राम्या न वसत्यतः-पा०)॥५४॥ युग्मम् । श्रावकान् कांश्चिदापृच्छय प्रमोच्यैव च कांचन । पामोत् प्रस्थाय वींझेवानगरं सह तैर्गुरुः ।। सूरिः पर्यवसत्तत्र चतुर्मासी महोत्सवैः । पीणयन् श्रावकान् धर्मान् प्रणयन् प्रणयाश्रयान्॥५६॥ इत्थं श्रीविजयादिदेवगुरुणा सन्दब्धमुत्साहतो, विद्वेषिप्रतिवादिनां परिभवं दौर्गत्यविध्वंसकम् । ४८-अदः इति किं इत्याह-अतो अनु अस्मात् पश्चात् त्वत्पदाब्जरजः स्वचरणकमलरेणुः अस्माकं क्व न कदापीति भावः । ५१-इदि परमैश्वर्ये भ्वादिः परस्मैपदी, लात्वाशिषि लिड् लोटौ इति लोटो मध्यमपुरु. पैकवचने, सेयपिञ्चेति सेहौं, अतोहेरिति हे कि इन्देति सिद्धिः। ५५-कांश्चित् श्रावकान मन्त्रिजयमल्लादि-जाबालपुरवासिनः, कांश्चन श्रावकान् भिन्दिमालादिद्रङ्गवासिनः । तैः सह वींझेवाश्रावकः सह ।। ५६-तत्र वींझेवानगरे प्रणयाश्रयान् प्रेममन्दिरान् प्रणयः प्रेमयाञ्चयोरिति हैमानेकार्थः ।
SR No.010676
Book TitleVijaydev Mahatmyam
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samiti
Publication Year1928
Total Pages140
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy