________________
दशमः सर्गः
अथ श्रीमेडताद्रङ्गे, हर्षों हर्षकरोऽभवत् । सदा तत्रत्य लोकानामन्येषां च विशेषतः ॥१॥ निविरीसा इवोर्वीशा धनीशाश्चापरे जनाः। यस्यासन् पुर आसीना नाहर्षस्तेन केऽप्यमा ॥२॥ अवष्टभ्य सदा तिष्ठन् यदंही जीविकार्थिनः । कलौ लोका अनेकेऽस्मिन् नाहर्षस्तेन केऽप्यमा॥ सदादाने सदा नृभ्यो ददत्यनादि दायकाः। न पशुभ्यो विशिष्येति पशुभ्योऽपि ददान्यहम् ॥४ विचार्यत्यददहानं नरतिर्यग्भ्य ईप्सितम् । कर्णादिदानशौण्डेभ्यो हर्षोऽयमधिको यतः ॥५॥ तद्यथा-सदादाने ददौ सोऽनं नराणां जीविकाकृते ।
पशूनां च खटान् दिव्यान् तेन स्पर्धेत कोऽप्यमा ॥६॥ यस्याध्यापि सुताः शश्वद्ददत्यनं खटानपि । मनुष्येभ्यः पशुभ्यश्च तेन स्पर्धेत कोऽप्यमा ॥७॥ श्रीशधुञ्जयसत्तीर्थरैवतकार्बुदादिषु । नेमुस्तीर्थकृतः सङ्घ कृत्वा माग भरतादयः ॥८॥ कृत्वा तैः सह संह श्रीहर्षों हर्षवद्वरः । करवाणि महासमिति चेतस्यचिन्तयत् ॥५॥ पूजयानि च तत्रत्याः प्रतिमा अर्हतां समाः। निर्माणि च महापुण्यं फलं लक्ष्म्या लभै पुनः॥
-त्रिभिर्विशेषकम् । तदानीं स विचिन्त्येति महासङ्घ विधाय च । स्वगुरुनन्यसाधूंश्च लात्वाऽमा तीर्थमाव्रजत् ॥११॥
२-तेन श्रीहर्षण नाम्ना श्रावकेणाऽमा सह केपि नाऽहर्षन् न स्पर्धा चरित्यर्थः । तेन केन ? यस्य पुर आसीना उर्वीशा धनीशाः, चः पुनः अपरे जनाः निविरीसा इव नतनासिका इव कृतनासिका नमना इव आसन् । नेविड् च विरीसचौ । इति नासिकायाः सम्बन्धिनि नमने वाच्ये निशब्दात् विरीसच् प्रत्यये निविरीसं, तद्योगात् पुरुषा अपि निविरीसाः। निविरीसा इव नतनासिकपुरुषा इव येतेऽपि। इव शब्दस्य लोपे निविरीसाः कृतनासिका नमनास्ते इव इत्युपमा ।
३-तेन हर्षानाम्ना श्रावकेण अमा सह केपि नाऽहर्षन् न अस्पर्धन्त । तेन केन ? यदही अवष्टभ्य आलम्ब्य अस्मिन् कलौ जीविकार्थिनो अनेके लोकाः सदा अतिष्ठन् । अवष्टभ्येत्यत्र अवाचालम्बनाविदूर्ययोरिति आलम्बनेऽर्थे स्तम्भः सकारस्य मूर्धन्यादेशः ।
४-सदादाने सत्कार इति भाषाप्रसिद्ध ।
१०-आशीः प्रेरणयोः-करवाणि पूजयानि निर्माणि एतानि त्रीणि मेनिरिति लोटो मेनि इत्यादेशे आडुत्तमस्य पिञ्चेति आडागमे लोट उत्तमपुरुषैकवचनानि । लभै इति च एतपेरिति एत ऐ आदेशे लोट आत्मनेपदे उत्तमपुरुषैकवचनम् ।
११-तीर्थ श्रीरैवताचलं आव्रजत् प्राप्तवान् ।