________________
44
श्रीवल्लभोपाध्यायविरचित
[नवमः अथवा-जग्मुः कल्पद्रवः स्वर्गे लोकैः सन्तापिता भृशम् । तेजपालस्तु कल्पद्रुरेकोऽस्तीहितदायकः॥ अथवा-सर्वे कल्पद्रवो नेशुः भिन्न भिन्नेप्सितप्रदाः। तेजपालोऽस्ति कल्पद्रुरेकोऽनेकेप्सितपदः॥ अथवा-तेजपालस्य दानानि साधुयोग्यानि नो नहि । एकोऽनेकेप्सितपाता तेजपालो वयं नहि ॥ इति कल्पद्रुमाः सर्वे विमृश्य स्वहृदि स्वयम् । लज्जयेव गताः स्वर्गे लज्जितो याति यन किम् ॥ ऊकेशवंशविख्यातो दौसिकान्वयदीपकः (अथवा-उपकेशाभिधे वंशे दोसीवंशपदीपकः)।
योधो भोजस्तथेत्याद्या वसन्तीभ्याः परेऽपि च ॥२४॥ विजयदेवसूरीन्द्रस्तपागच्छाधिनायकः । श्रीमद्विजयसिंहाख्यसूरिसेवितपत्कजः ॥२४४॥ आगतः स्वागतं कुर्वन् जन्तुजातस्य सम्पति । रम्योपशिवपुर्यत्र तेजपालोऽशणोदिति ॥२४॥ तेजपालस्ततस्तुष्ट्वा भूत्वा पुलकिताङ्गकः। कृत्वैकत्रोत्सवात्सझंप्रास्थात्मृरि विवंदिषुः ॥२४६।। यत्र स्तस्तत्र तो सूरी गत्वा नत्वा च भक्तितः। अग्रतो विनयादस्थाद्धर्म श्रोतुंमना हि सः॥२४७॥ शत्रुञ्जयार्बुदाद्रयादितीर्थयात्रां हि ये नराः। कुर्वन्ति कारयन्त्यन्यान् लभन्ते ते नराः शिवम् ॥ श्रुत्वोपदेशमीक्षं भट्टारकनिरूपितम् । तीर्थयात्राफलं ज्ञात्वा तेजपालोऽभ्यधादिति ॥२४९॥ अर्बुदाचलतीर्थस्थान विधिनाचिचिपाम्यहम् । विवन्दिषामि च श्रीमदादिदेवादिकाईतः ॥२५०॥ भवता दीव्यताचार्यवर्योपाध्यायसाधुभिः। महता च श्रीसद्धन तथान्यैश्च समन्वितः।२५१ युग्मम् ओमाहेति ततः मूरिस्तेजपालाभिधास्तिकम् । इच्छाप्तौ स्याद्यतो हर्षः सोऽतोऽतोतुष्यतोत्तमः॥
(-सोऽतोऽतोतुष्यत प्रेयान् इच्छासिद्धिर्न किं मुदा-इति वा पाठः) प्रत्यर्बुदाचलं तीर्थ तेजपालस्ततोऽचलत् । प्रत्यहं वन्दमानोऽमा समायान्तं गणाधिपम् ॥२५३॥
(-समायान्तं तपापतिम्-इति वा पाठः) सुदिनाहे समारोहत् श्रीसूरिः श्रावकश्च सः । अर्बुदाचलसत्तीर्थमनत्तस्मिंश्चतीर्थपान् ॥२५४॥ द्रव्यतस्तेजपालोऽयं श्रीजिनेन्द्रानपूजयत् । कश्मीरजन्म-कर्पूर-कस्तूरी-चन्दनादिभिः॥ अभ्यष्टौद् भावतः सूरिः श्लोकः काव्यैश्च भावदैः । यथामति यथाधीतमन्येऽपि व्यदधन् स्तुतिम्॥ द्रव्याण्यव्यययेच्छ्रेयोबुद्धया तत्र स आस्तिकः । एकेन्द्रियादिजीवानां दयां सूरिरपालयत् ॥ अदाप्याणि स श्राद्धः श्राद्धानां पाणिपङ्कजे । सूरिमूर्द्धसु साधूनां वासे श्रीपदद्धये ॥२५८॥ अर्बुदाचलसत्तीर्थयात्रायाः परमोत्सवः । प्रावर्ततोभयोरेवं सूरिश्रावकयोमहान् ॥२५९॥ । तत उत्तीर्य संतीर्य दुरिताब्धि च दुस्तरम् । अर्बुदाचलसत्तीर्थात् सुकृतात्सुकृतोडुपात् ॥२६०॥ विजयदेवसूरीन्द्रो विजयसिंहमूरियुक् । अस्थादुपत्यकाग्रामे तेजपालोऽपि संघयुका२६१।युग्मम्
२४५-शिवपुर्याः समीपं उपशिवपुरि । विभक्तिसमीपेऽर्थेऽव्ययीभावः । रम्यं च तत् उपशिवपुरि च रम्योपशिवपुरि तस्मिन् रम्योपशिवपुरि ।
२५३-तपापति तपागच्छनायकं श्रीविजयदेवमूरिम् ।