________________
नवमः सर्गः
अथ शश्वद्नुरोः पार्थे सर्वा विद्याश्चतुर्दश । सोपाङ्गैकादशाङ्गीयुक् पूर्वाण्यपि चतुर्दश ॥१॥ अधीयानोऽभवज्ज्यायान्वर्धमानो गुणश्रिया।
ओजसा तेजसा चाङ्गे कनकविजयोऽन्तिषत् ॥२॥ युग्मम् ॥ प्रत्यक्षा हि बभौ तस्मिन् चित्तस्थेव सरस्वती । सूत्राांधवबोधेन कालेष्वध्ययनादिषु ॥३॥ शिष्यैरनेकैविद्वद्भिर्युक्तो यद्यपि भूरिभिः । तथाऽप्यनन्यशिष्योऽहमित्यमस्त सदा गुरुः ॥४॥ चक्षुषी तस्य कर्णान्तविश्रान्ते स्तो मनोहरे । चक्षुष्मत्ता तु शास्त्रार्थस्तथाऽप्यासीजगद्धिता॥ विशावदाऽहयस्सोऽस्ति श्रीराजनगरे ह्यऽथ । विशावदाता उद्यन्ते विशदा यस्य धीमता ॥ शंसन्तीति विशो विश्वे विश्वे विश्वममूदृशम् । अश्नुते सघशो यस्य विश्वस्येष्टे स ईश्वरमा७॥ विवस्वानिव तेजस्वी वचस्वीव बृहस्पतिः।।
यशस्वी चक्रवर्तीव जिनशासनमारका ॥८॥ युग्मम् ॥ वशीति विवशो नेति शश्वञ्चेति वर्शवदः । यमुशन्ति विशामीशा भासते स विशावताः ॥९॥ उद्धतेजगतो मूलं मूलं स्वीयकुलस्य च । मूलो नाम तदीयोऽस्ति भ्राता त्राता सदथिनः ॥ अथात्रावसरे श्रीमद्विजयसेनसद्गुरुम् । विशावदाऽभिधः श्राद्धः समायाद्वन्दितुं मुदा ॥११॥ वन्दित्वा पालिर्भूत्वा विनयात् स उपाविशत् । पुरस्ताच श्रीगुरोधमकथां श्रोतुमनास्तदा॥ विजयसेनसूरीन्द्र इति तं समुपादिशत् । नवीनप्रतिमानां हि कारणं पुण्यकारणम् ॥१॥ समाकर्योभयाकणि च ईदृग्गुरोईखात् । प्रतिमाकारणे भावमदधाच श्रीविशावदाः ॥१४॥
८-स विशाविदा ईश्वरो धनी श्रावकः विश्वस्य जगत इष्टे ऐश्वर्य करोतीत्यर्थः । अधीगर्थदयेशां कर्मणीति शेषत्वेन विवक्षिते कर्मणि विश्वस्येति षष्ठी। शेषत्वेनाऽविवक्षिते कमणि विश्वमीष्टे इति कर्मापि स्यात् । जगतामीष्टे जगन्तीष्टे इत्यादिवत् । स कः यस्य विशाविदा इति नामः श्रावकस्य अमूरशं सद्यशः विश्वं लोकमभते इति । विश्वे सर्वविशो मनुष्या विश्वे लोके शंसन्ति स्तुवन्ति कथयन्तीति यावत् । अमूटशमिति किं तदेवाह-विवस्वानिव तेजस्वीत्यादि सर्व स्पष्टं । एतत्सर्वमप्रतः स्पष्टयिष्यति ।
९- विशाविदानाम श्रावको भासते दीप्यते । स का यं विशामीशा मनुष्याणां स्वामिनो राजान इत्यर्थः । वशीति विवशो नष्टदुष्टधीति । च पुनः शश्वत् वशंवद इति उशन्ति वाञ्छन्ति कथयन्तीति यावत् । विवशोऽनिष्टदुष्टधीरिति हैमः।
१०-सन्तः साधवः श्रावकादयः, आर्थिनश्च याचका ब्राह्मणादय इति समाहारद्वन्द्वे गर्थिनस्तान् । न लोकाऽव्ययनिष्ठाखलर्थतनामिति षष्ठीनिषेधे द्वितीयेव ।