________________
श्रीवल्लभोपाध्यायविरचितं
[ एकोनविंशः चमत्कृतेन तेनाथ यवनेन नतस्ततः । सत्कृतः क्षामितस्सूरिययौ च स्थानमीप्सितम् ॥१९२॥ श्रागुरोर्दवसानिध्य स्पष्टं षष्ठमथो ब्रुवे । अष्टौ वर्षाण्यविच्छिन्नं सुभिक्षमभवन्मरौ ॥१९३॥ मरुस्थल्यां हि दुष्कालः शाश्वतः श्रूयते जनैः । अष्टवर्षावधि स्पष्टं नैव दृष्टः स केनचित् ॥१९४ महाजनमुखादेतच्छूतं यनिर्जले स्थले । गुरौ विहरति ज्येष्ठे मासिऽवर्षद् घनो घनः ॥१९५ अन्यदा स्तंभतीर्थेऽगाद् वत्सरैर्भूरिभिर्गुरुः । तदास्य दर्शनादेव बोधि प्रापुस्सुमेधसः ॥१९६ यतः-सागरीयं मतं त्यक्त्वा मेघाद्याः श्राद्धमुख्यकाः । बोधि प्राप्ता गुरोरेव वासक्षेपमकारयन्।। अथास्य काव्यस्योपसंहारमाचरबाहइत्यादिभिर्धनतरैरवदातवृन्दैश्वेतश्चमत्कृतिकरैश्चतुरोत्कराणाम् । प्राचीनसरितुलनां कलयन् कलौ किं श्रीगौतमः पुनरयं गुरुरेष जीयात् ॥१९८॥ किं चान्यगच्छीयतया मया यत् संसूत्रितं शास्त्रविरुद्धमत्र । तत्सत्यमेवाथ बुधविधेयं काव्योत्तमाच्छीविजयादिवंशात् ॥१९९॥ अर्थतत्काव्यकरणे पराशङ्कामाविष्कृत्य निराकुर्वनाहयदन्यगच्छप्रभवः कविः किं मुक्त्वा स्वमूरि तपगच्छमूरेः । कथं चरित्रं कुरुते पवित्र शंकेयमान कदापि कार्या ॥२०॥ आत्मार्थसिद्धिः किल कस्य नेष्टा, सा तु स्तुतेरेव महात्मनां स्यात् । आभाणकोऽपि प्रथितोऽस्ति लोके, गंगा हि कस्यापि न पैतृकीयम् ॥२०॥
१९५-सुगमोऽयं । नवरं निर्जल इत्यपेयक्षारकूपैक्यसद्भावात् मिष्टनीराऽसदभावात् , अजले स्थले ओकेशादिस्थले गुरौ श्रीविजयदेवसूरौ विहरति सति अग्रतो प्रामे प्रामे घनोऽतिशायी घनो मेघोऽवर्षत् वृष्टः । येन यत्र प्रातर्गुरुः सभागात्तत्र सरांसि भृतानि दृष्टानि इति योधपुरस्थेन मया महाजनमुखात् श्रुतमिति सत्यमेवेति ।
१९७-अर्थः सुगमः । परं सागरीय मतमित्येव । तदुत्पत्तिर्यथा तपागच्छीयैरेवोपाध्याय. श्रीधर्मसागरैर्गच्छनायकाज्ञां विनैवात्मीयप्ररूपणात्मक छन्नमेव सर्वज्ञशतकं ग्रन्थः कृतः । परमनर्थमूलत्वं ज्ञात्वा रहस्येव तत्पुस्तकानि पञ्चषाणि विधाप्य ते तु स्वर्गताः । कालक्रमेण ६७६ वर्षे स प्रन्यः प्रकटीभूतस्ततोऽस्य केनाप्यशोधितत्वानि मकत्वाचौररूपत्वात् समस्तगीतार्थसाक्षिक भट्टारकश्रीविजयसेनसूरिभिः सोऽप्रमाणीकृतस्ततः सागरशाखीया ये गच्छ नायकाज्ञां विनैव तं बलात्कारेण प्रमाणीकृतवन्तस्तेऽपि भट्टारकश्रीविजयदेवनारीभिः स्वगणाहिः कृतास्ततस्तैः सागरशाखाधरैर्वेषधरैर्द्रव्यलिङ्गिद्वारा स्थापिताचार्यकैः १६८७ वर्षे यन्मतं कर्षितं तत्सागरीयं मतं त्यक्त्वा सा० मेघाद्या बहवः श्रावकाः श्रीविजयदेवसूरदर्शनादेवबोधि प्राप्य तस्यैव गुरुत्व बुद्धया वासक्षेपमकारयमिति ।