________________
एकोनविंशः सर्गः
अथ श्रीकल्पशाखीव शाखाभिरभिशाखिकाः। संतुष्टोऽयं समृध्नोतु विद्यमानाभिरन्वहम् ॥
(-शाखनाज्जगतीं जाग्रजगज्जगदधीश्वरः-इति वा पाठः) सर्वान् विजयते शत्रून् अस्त्यस्याविजयोऽथवा । विजया प्रथमा शाखा ज्यायां विजयते सदा॥ सुन्दरा सद्गुणैः सर्वैस्तपःप्रभृतिभिर्भृशम् । शोणादिगणपाठात् स्यात् सुन्दरीत्यपि डीपि च ॥ निरतीचारचारित्रतपोविद्यादिभिर्गुणैः । वल्लभा निर्मला चैव हंसा हंस इवोदिता ॥४॥ मलते सर्वशास्त्राणां परमार्थ विशेषतः । जगत्यां च यशः शस्यमित्युक्ता विमला बुधैः ॥५॥ चन्द्रवत्सर्वलोकानां चन्द्रोक्ताडादनात्वतः । सदा कुशलसंयोगात् कुशला कुशलपदा ॥ यस्यामुत्पन्नसाधुभ्योऽहंद्धर्मों रोचते सदा। सच्छास्त्राध्ययनं चाग्रं रुचिस्तेनोच्यते बुधैः ॥७॥
सविद्यालक्षणां लक्ष्मी गृणातीत्यचि सागरा।
सौभाग्यं सर्वदास्त्यस्यां सौभाग्येति बुधैः स्मृता ॥८॥ सर्वेषां हर्षहेतुत्वात् हर्षोऽस्त्यस्यां च शाश्वतम् । अस्त्यर्थमत्ययाकारयोगाद् हर्षी निगद्यते ॥ कलाभिः सहिता नित्यं सकलेत्युच्यते बुधैः । सर्वदोदयसम्बन्धादुदयेत्युद्यते जनैः ॥१०॥ आनन्दति सदानन्दैः सर्वविद्याविनोदतः । आनन्देति समाख्याता सारासारप्रभावतः ॥११॥
१-अयं श्रीविजयदेवसरिः श्रीकल्पशाखी शाखाभिरन्वहं समृनोतु वर्धतामित्याशीर्वादः। कथंभूतः अयं ! शाखिकाः अभिशाखाः, अभिलक्षीकृत्य संतुष्टः, आभिरभागे इति लक्षणेऽर्थे अभीत्यव्ययस्य योगे शाखिका इत्यत्र द्वितीयाबहुवचनम्, अव्ययीभावसमासाभावात् । अव्ययीभाव. समासे तु लक्षणेनाभि प्रती आभिमुख्ये इति अव्ययीभावे, अव्ययीभावश्चेति अव्ययीभावस्य नपुंसकत्वे, नपुंसकत्वाद् हस्वत्वे अभिशाखिकमिति स्यात्। शाखाः अभि लक्षीकृत्येत्यर्थः । शाखा एष शाखिकाः। सर्वशब्देभ्यः स्वार्थे कन्निति कनि, केण इति हस्वे, प्रत्ययस्थात्कारपूर्वस्यातः इदाप्यसुप इति अकारस्य इकारः। एवं कल्पशाखि विशेषणमपि व्याख्येयम् । शाखताजगी जाग्रजगजगदीश्वरः-इति पाठे जगदधीश्वरः श्रीविजयदेवमूरिः शाखाभिः जगल्लोकं शाखतात् व्याप्नोतु । क: कां इव श्रीकल्पशाखीव, कां जगतीं, यथा कल्पशाखी जगतीं व्याप्नोति तथा श्रीविजयदेवसूरिरपि ।
२-सर्वान् शत्रून् अन्तरस्थान कामक्रोधलोभमोहमदहर्षान् । अथवा अस्याः शाखायाः ज्यायां पृथिव्यां विजयोऽस्तीति प्रथमा विजया शाखा ।
३-सुन्दरा सुन्दरीति अस्त्यर्थप्रत्ययाऽकारयोगात् सुन्दरा, शोणादिगणपाठात् जीपि सुन्दरी।
९-अस्त्यये प्रत्ययः अस्त्यर्थप्रत्ययः स चासौ अकारश्चेति अस्त्यर्थप्रत्ययाकारस्तस्य योगः सम्बन्धस्तस्मात् ।
१०-कलाश्चातुर्यादयस्ताभिः ।