________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम् पातिसाहि-जहांगीर-महातपा अयं गुरुः । विजयदेवसूरीन्द्र इति ख्यातोऽभवद्भुवि ॥४२॥r श्रीजिनशासनस्यास्य तपागच्छस्य चाद्भुतः । अभवन् महिमा ज्यायान् श्रीपूज्यस्यापि च ध्रवः।। पातिसाहिरथापृच्छत् श्रीचन्दु संघनायकम् । तस्मिन् रात्रिदिवे चैवं गोसलखानसंस्थितः ॥ एवमिति किं तदाह-भो चन्दूस्त्वमथातुष्य उत नो वेति मां वद ।
अतुष्यमिति सोऽवादीत पातिसाहिं प्रति स्फुटम् ॥४५॥ पातिसाहे चिरं जीव धुर्य न्यायवतां सदा । रामराज इव न्यायं त्वं व्यधा विबुधाग्रणीः ॥४६॥ अहं कथमनुष्यं नो समतुष्यं विशेषतः। धर्मन्यायविधानाद्यत् सर्वस्तुष्यति सज्जनः॥४७॥ युग्मम्। पातिसाहिरिति प्राह लोकभूपसमक्षकम् । सर्वेषां गुरुरेषोऽस्तु सर्वस्वामी च सर्वदा ॥४८॥ समस्तपूर्वसूरीन्द्रपरम्पराक्रमाश्रितः । यथाहं पातिसाहीनां क्रमायातस्तथा यसौ ॥४९॥ वर्तते दीप्यते चोर्ध्या सर्वसूरिशिरोमणिः । हिन्दू-तुरुष्कभूपालमौलिचूडामणिः सदा ॥५०॥ अतः समस्ता भो लोका मन्यन्तामिममुत्तमम् । समस्तारिं समस्तानां मामिव प्रभुतोमतम् ॥ पातिसाहिरभाषिष्ट वारं वारमिति स्फुटम् । मत्तोऽप्यधिकतेजस्वी यद्वर्ते वशवर्त्यहम् ॥५२॥ कुपितः कोऽपि पापीयान् कोपतः कोपपूरितः । भविष्यति सदा दुःखी स एतस्मात्पराङ्मुखः ॥ धन्योऽयं कृतपुण्योऽयं तपस्तेजःसमुच्चयः । दर्शनेघूत्तमं चास्य दर्शनं सुखकारि यत् ॥५४॥ एवं प्राशंसतानेकभूपलोकसभास्थितः। पातिसाहि-जहांगीर-शिलेमसाहिरहो गुरुम् ॥
इत्थं पाप महातपाविरुदकं श्रीपातिसाहेसुखाद् यः श्रीमद्विजयादिदेवसुगुरुः सोऽयं सदा दीप्यताम् । श्रीश्रीवल्लभपाठकेन कविना व्यावणितं सर्वतः
श्रोतृश्रोत्रसुखपदं सुविशदं सत्योक्तितः सर्वदा ॥५६॥ इतिश्री श्रीबहत्खरतरगच्छीय श्रीजिनराजसूरिसन्तानीय पाठकश्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराज पातिशाहि श्रीअकबरप्रदत्तजगद्गविरुदधारक श्रीहरिविजयसूरीश्वरपट्टालङ्कार पातिशाहिश्रीअकब्बरसभालब्धदुर्वादिजयवाद भट्टारक श्रीविजसेनसूरीश्वरपट्टपूर्वाचलसहस्रकरानुकारि पातिशाहि श्रीजिहांगीरप्रदत्त महातपाविरुदधारि श्रीविजयदेवसूरीश्वरगुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनाम्नि महाकाव्ये श्रीविजयदेवसूरिलब्ध. जहांगीरमहातपाबिरुदवर्णनो नाम सप्तदशः सर्गः ॥१७॥
४८-सर्वेषां एतद्गच्छीयसाधुश्रावकलोकानां सर्वस्वामी साधुसाध्वीश्रावकश्राविकाजिनप्रासादोपाश्रयादिस्वामी सर्वदा एष विजयदेवसूरिरस्तु ।