________________
चतुर्दशः सर्गः
अथ नागपुरात्सवः समाहातुं समागमत् । संरक्षितुं चतुर्मासं सूरीन्द्रं मेडतापुरे ॥१॥ प्रणम्य बहुशः प्रोक्तस्तेन सूरिः स्वभक्तितः । अपृच्छन्मेडतासङ्घ संघो मामाहयत्ययम् ॥२॥ मेदिनीतटसंघोऽत्र संघ नागपुरीयकम् । माहेति साम्पतीनेऽन्दे चतुर्मास वसिष्यति ॥३॥ महत्त्वमिदमानन्ध प्रसह्य च प्रदेहि मे । संयो नागपुरस्येति श्रुत्वा तूष्णीं व्यधात्तदा ॥४॥ मेदिनीतटसद्दङ्ग चतुर्मासमुपावसत् । सूरि गपुरीयोऽपि : छः प्रास्थात् तदाज्ञया ॥५॥ अथार्जुनपुरीनाम पुरासीच्छ्रेयसी पुरी । घंघाणीत्यधुना नाम्ना प्रसिद्धास्ति पुरी वरा ॥६॥ तत्र सम्मतिराजा प्राक् जिनागारमकारयत् । पद्मप्रभजिनं तत्र स्वामित्वेन न्यवेशयत् ॥७॥ अनेकाः प्रतिमा रीरीमय्यः सर्वा मनोरमाः । श्वेतस्वर्णमयी पार्श्वपतिमैका प्रभावभाः ॥८॥ पद्मप्रभजिनाधीशपाङसीना इमा व्यभुः । प्रभावोऽपि महानासीत्तस्य तासां च सर्वदा ॥९॥ कुतोऽपि कारणाद् द्रङ्गभङ्गात्तद्वासिनो जनाः। ताः सर्वाः प्रतिमा भूमौ न्यस्यन्नुपसरः पुराः॥ अगच्छत्मचुरोऽनेहा अम्रियन्त जना अपि । तासां निक्षेपकाः सर्वे द्रङ्गं ग्रामोऽपि चाभवत् ।। अखननान्यदा लोकाः समीपे सरसो भुवम् । प्रतिमैका तदा खण्डा प्रादुरासीत्स्वभावतः ॥ अन्या अपि ततः सर्वाः प्रादुरासन् यथाधृतम् । अभवच तदा तासां सत्पूना महिमापि च ॥ अहो अजीववस्तूनां रागद्वेषाद्यभावतः । कदा नार्चा कदाप्यर्चा पुनरर्चा कदापि यत् ॥१४॥ विवस्तत्कर्म नो किंचिद्वक्तुं नो शक्नुमोऽपि च । संभावयामः कर्मैव किंचित्तत्रापि निश्चितम् ॥ अथासीत्सवणो धर्मे त्रिहुणः साहुलाकुले । तस्य पुत्रा अमी पश्च जनीनाः पञ्च सज्जनाः॥१६॥ तद्यथा-हंसस्तेजस्तथा राजा महः श्रीमहिराजकः । तेषु भ्रावृद्वयं स्वर्गमायुषः क्षयतोऽव्रजत् ॥
१-मेडतापुरे इति-मेदिनीतटे पाठान्तरम् । २-तेनेति नागपुर सङ्घन । अयमिति नागपुरसह । ३-वसिष्यतीति-विधास्यति पाठान्तरम् ।
५ मेदिनीतटसद्गमित्यत्र उपाऽन्वध्याऽवसः इति उपपूर्वस्य वसतेराधारत्वात् द्वितीयैकवचनं । चतुर्मासमित्यत्र कालाध्वनोरत्यन्तसंयोगे इति द्वितीया । तदाज्ञयेति श्रीविजयदेवसूरेराज्ञया ।
६-वरेति जने पाठान्तरम् । ८-प्रभावेण भासते दीप्यते इति क्विपि प्रभावभाः । १०-न्यस्यन् निचिक्षिपुः । उपसरः तटाकसमीपे । १७-हंसमहिराजभ्रातृद्वयम् ।