________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्याणभारती
REE
(१२-१३-१४-१५-१६) निजपुण्यानुसारेण लाभः सम्पद्यते नृणाम् । भवन्ति दुर्लभा लाभा: संकुचत्पुण्यसम्पदाम् ।। अपूर्ताव भिवाञ्छानां जनो ग्लायति, शोचति । जनानननुकूलांश्च प्रति क्रुष्यति, रुष्यति ।। किंतु स्वपुण्यमांद्यं स यदि सभ्यग् विचिन्तयेत् । । सदा व्याकुलितो न स्याच्शान्ति धतुं च शक्नुयात् ।। अधिकायोद्यतेनापि निजे तोष्टव्यमल्पके । परन्त्वधिकलाभार्थ नात्मा पात्यः कदाचन ।। नेतु च भाग्यमुत्कर्ष भवेत् सत्कर्मतत्परः । एवं हि सुधियः सम्यगुन्नति प्राप्तुमीशते ।।
For Private and Personal Use Only