SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ रत्नकरण्डकश्रावकाचारे वैयावृत्यं दानं ब्रुवते प्रतिपादयति च कथं चतुरात्मत्वेन चतु:प्रकारत्वेन। के ते? चतुरस्राः पण्डिताः । तानेव चतुष्प्रकारान् दर्शयन्नाहारेत्याद्याह- आहारश्च भक्तशनादिः औषधं च व्याविस्फेटकं द्रव्यं तयोर्द्वयोरपि दानेन । न केवलं तयोरेव अपि तु उपकरणावासयोश्च उपकरणं ज्ञानोपकरणादिः आवासो वसतिकादिः ॥ २७ ॥ ૮૨ तच्चतुष्प्रकारं दानं किं केन दत्तमित्याह :श्रीषेणवृषभसेने कौण्डेश: शूकरथ दृष्टान्ताः । वैयावृत्त्यस्यैते चतुर्विकल्पस्य मन्तव्याः ॥ २८ ॥ चतुर्विकल्पस्य चतुर्विधवैयावृत्यस्य दानस्यैते श्रीपेणादयो दृष्टान्ता मन्तव्याः । तत्राहारदाने श्रीषेणो दृष्टान्तः । अस्य कथा - मलयदेशे रत्नसंचयपुरे राजा श्रीषेणोराज्ञी सिंहनन्दिता द्वितीया अनिन्दिता च । पुत्रौ क्रमेण तयोरिन्द्रोपेन्द्रौ । तत्रैव ब्राह्मणः सात्यकिनामा, ब्राह्मणी जम्बू, पुत्री सत्यभामा । पाटलिपुत्रनगरे ब्राह्मणो रुद्रभट्टो वटुकान् वेदं पाठयति । तदीयचेटिकापुत्रश्च कपिलनामा तीक्ष्णमतित्वात् छद्मना वेदं शृण्वन्तत्पारगो जातो रुद्रभट्टेन च कुपितेन पाटलिपुत्रान्निर्धाटितः । सोत्तरीयं यज्ञोपवीतं परिधाय ब्राह्मणो भूत्वा रत्नसंचयपुरे गतः । सात्यकिना च तं वेदपारगं सुरूपं च दृष्ट्वा सत्यभामाया योग्योऽयमिति मत्वा सा तस्मै दत्ता । सत्यभामा च रतिसमये विचेष्टां तस्य दृष्ट् कुलजोऽयं न भविष्यतीति सा सम्प्रधार्य चित्ते विषादं वहन्ती तिष्ठति 1 एतस्मिन् प्रस्तावे रुद्रभट्टस्तीर्थयात्रां कुर्वाणो रत्नसंचयपुरे समायातः । कपिलेन प्रणम्य निजधवलगृहे नीत्वा भोजनपरिवानादिकं कारयित्वा सत्यभामायाः सकललोकानां च मदीयोऽयं पितेति कथितम् । सत्यभामया चैकदा रुद्रभट्टस्य विशिष्टं भोजनं बहुसुवर्णे च दत्वा पादयोर्लगित्वा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy