________________
२२३
स्वतस्त्रिलिङ्गः सरकोऽनुतर्षे शललः शले । करकोऽदोपले कोशः, शिम्बा खड्गपिधानयोः ॥ १२८॥
जीवः प्राणेषु केदारे, वलजः पवने खलः । बहुलं वृत्तनक्षत्रपुराद्याभरणाभिधाः ॥ १२९ ॥ भल्लातक आमलको, हरीतकविभीतकौ । तारकाढकपिटकस्फुलिङ्गा विडङ्गतटौ ॥१३०॥ पटः पुटो वटो वाटः, कपाटशकटौ कटः । पेटो मठः कुण्डनीडविषाणास्तूणकङ्कतौ ॥१३१॥ मुस्तकुयेङ्गुदजृम्भदाडिमाः, पिठरप्रतिसरपात्रकंदराः । नखरो बल्लूरो दरः पुरश्छत्रकुवलमृणालमण्डलाः ॥१३२॥
नालप्रणालपटलार्गलशृङ्खलकन्दलाः ।
पूलावहेलो कलशकटाहौ पष्टिरेण्विपु ॥१३३॥
इति स्वतस्त्रिलिङ्गाधिकारः ।
1
परलिङ्गो द्वन्द्वोऽशी डेऽर्थो वाच्यवदपत्यमिति नियताः । अस्त्रचारोपाभावे गुणवृत्तेराश्रयाद्वचनलिङ्गे ॥१३४॥ प्रकृतेर्लिङ्गवचने बाधन्ते स्वार्थिकाः कचित् । प्रकृतिर्हरीतक्यादिर्न लिङ्गमतिवर्तते ॥१३५॥