________________
२२०
धूयाऽजन्यप्रमयसमया राजसूयो हिरण्यारण्ये संख्यं मलयवलयौ वाजपेयः कषायः । शल्यं कुल्यान्ययकवियवद्गोमयं पारिहार्यः, पारावारातिखरशिखराः क्षत्रवस्त्रोपवस्त्राः ॥ ११०॥ अलिंजरः कूबरकुरवेरनीहारहिञ्जीरसहस्रमेढाः । संसारसीरौ तुवरच सूत्रशृङ्गारपदान्तरकर्णपूराः ॥ १११ ॥ नेत्रं वक्त्रपवित्रपत्त्रसमरोशीरान्धकारा वरः, केदारप्रवरौ कुलीरशिशिरावाडम्बरो 'गहरः । क्षीरं फोटरचक्रचुक्रतिमिरागारास्तुषारः शर, भ्राष्ट्रोपहरराष्ट्रतक्रजठरार्द्राः कुञ्जरः पञ्जरः ॥ ११२ ॥
कर्पूरनूपुरकुटीरविहारवारकान्तारतोमरदुरोदरवासराणि ।
कासारकेसरकरीरशरीरजीर
मञ्जीरशेखरयुगंधरवज्रवप्राः ॥ ११३ ॥
आलवालपलभालपलालाः, पल्वलः खलचपालविशालाः । शूलमूलमुकुलास्तलतैलौ, तूलकुम्भलतमालकपालाः ॥११४॥
कवलप्रवालबलशम्बलोत्पलो
पलशीलशैलशकलाङ्गुलाश्चलाः । कमलं मलं मुसलसालकुण्डलाः,
फललं - नलं निगलनीलमङ्गलाः ॥११५॥