________________
१८९८
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे
अथाष्टसप्तत्यधिकद्विशततमोऽध्यायः ।
रुद्र उवाचअथ पौण्डूकवासुदेवः काशिराजो वाराणस्यां विविक्ते द्वादशवर्ष महेशमर्चयन्निराहारः पञ्चाक्षरं जजाप ॥ पौरश्चरणकाले शंकरं स्वनेत्रकमलेन पूजयामास ॥ ततः शूलपाणिरुमापतिः प्रसन्नो वरं वृणीप्वेति तमाह ॥ असौ पञ्चवकं सर्वभूतपतिं शिवं प्रसन्नं वरद मम वासुदेवसमानरूपं प्रयच्छेत्युवाच ॥ ४ शिवस्तस्मै शङ्खचक्रगदापद्मयुतचतुर्भुजं पुण्डरीकदलनिभलोचनं किरीटमणिकुण्डलपीतवस्त्र. . कौस्तुभाभरणादिचिह्नान्यपि प्रददौ ॥
स तु वासुदेवोऽहमिति सर्वलोकान्मोहयामास ॥
कदाचिन्मदवलोत्कटं तं काशिपतिं नारदोऽभ्येत्य मूढ वसुदेवसुतं कृष्णमजित्वा तव वासुदेवत्वं न विद्यत इत्युवाच ॥
स तु तस्मिन्नेव क्षणे कृष्णं जेतुं गरुडपताकायुतं रथमारुह्य चतुरङ्गाक्षौहिणीबलेन द्वारकामवाप तत्र पुरद्वारि स्वर्णयाने [*संस्थितो वासुदेवोऽहं युद्धार्थं संप्राप्तोऽस्मि मामजित्वा तव वासुदेवत्वं नास्तीति दूतं प्रेषयामास ॥
कृष्णोऽपि तच्छ्रुत्वा वैनतेयमारुह्य पौण्डूकेण योद्धं पुरद्वारि विनिष्क्रम्याक्षौहिणीवलेन ] स्यन्दने समासीनं शङ्खचक्रगदापद्महस्तं पौण्डूकं ददर्श ॥
अथ शाङ्गमादाय संवाग्निप्रभैर्वाणैस्तस्य रथाश्वगजपदातियुतं महदक्षौहिणीवलं मुहूर्तमात्रेण निःशेषं ददाह ॥
शरेणैकेन तस्य हस्तावशक्त['शङ्खचक्रगदादिहेतीरपि लीलयैव चिच्छेद ॥ १२ पवित्रेण सुदर्शनेन किरीटकुण्डलयुतं तस्य शिरःकमलं छित्त्वा वाराणस्यामन्तःपुरे निपातयामास ॥
तदृष्ट्वा सर्वे काशीनिवासिनः किमेतदित्याशङ्कय विस्मिता बभूवुः ॥ तस्य पौण्ड्रकस्य सुतो दण्डपाणिरितीरितो वासुदेवेन भगवता निहतं स्वपितरं श्रुत्वा मात्रा मृत्युना समादिष्टः स्वपुरोहितेनाभियुक्तो माहेश्वरेण क्रतुना शंकरमियाज ॥
स तु प्रसन्नः कृष्णजिघांसया समर्था माहेश्वरी कृत्यां तस्मै संपीत्या दत्तवान् || १६ स काशिराजस्तां माहेश्वरी ज्वालाकुलोपचितविग्रहां संदीप्तसटाकलापां पिङ्गलनेत्रां ज्वल. करालवदनां त्रिशूलहस्तां भस्माङ्गरागलिप्तां नरशिरोमालाविभूषितां सर्वदेवभयंकरी रुद्रदत्तों समीक्ष्य सपुत्रदारवान्धवसहितं कृष्णं जहीति प्रेरयामास ॥
सा तु सर्वलोकभयावहा सर्वां पृथ्वी स्वतेजसा निर्दहन्ती प्रलयाशनिनिर्भरस्वनं निनदन्ती द्वारकामवाप ॥
१८ __तत्रस्थाः सर्वे जनास्तां दृष्ट्वा महाप्रलयमिति मत्वा हाहाकारं कुर्वन्तः कृष्णं 'निवेदयामासुः॥ * धनुश्रिदान्तर्गतः पाठो झ. पुस्तकस्थः । + धनुश्विद्दान्तर्गत: पाटो झ. पुस्तकस्थः ।
१ झ. शरणमाजग्मुः ।
१४