________________
२६९एकोनसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८५५ निहता राघवेणाथ राक्षसी घोरदर्शना । त्यक्त्वा तनुं घोररूपां दिव्यरूपा बभूव सा॥ १२० जाज्वल्यमाना वपुषा सर्वाभरणभूषिता । प्रययौ वैष्णवं लोकं प्रणम्य च रघूत्तमम् ॥ १२१ तां हत्वा राघवः श्रीमान्कौशिकस्याऽऽश्रमं शुभम् । प्रविवेश महातेजा लक्ष्मणेन महात्मना१२२ ततः प्रहृष्टा मुनयः प्रत्युद्गम्य रघूत्तमम् । निवेश्य पूजयामासुराद्यैः परमासने ॥ १२३ कौशिकः कृतदीक्षस्तु यष्टुं यज्ञमनुत्तमम् । आरेभे मुनिभिः सार्धं विधिना द्विजसत्तमः॥ १२४ वर्तमाने महायज्ञे मारीचो नाम राक्षसः । भ्रात्रा सुबाहुना तत्र विघ्नं कर्तुमवस्थितः ॥ १२५ दृष्ट्वा तौ राक्षसौ घोरौ राघवः परवीरहा । जघानैकेन बाणेन सुबाहुं राक्षसेश्वरम् ॥ १२६ पवनास्त्रेण महता मारीचं च निशाचरम् । सागरे पातयामास शुष्कपर्णमिवानिलः ॥ १२७ स रामस्य महावीर्य दृष्ट्वा राक्षससत्तमः । न्यस्तशस्त्रस्तपस्तप्तुं प्रययौ महदाश्रमम् ॥ १२८ विश्वामित्रो महातेजाः समाप्ते महति क्रतो । प्रहृष्टमनसा तत्र पूजयामास राघवम् ॥ १२९ समाश्लिष्य महात्मानं काकपक्षधरं हरिम् । नीलोत्पलदलश्यामं पद्मपत्रायतेक्षणम् ॥ १३० उपाघ्राय तदा मूर्ध्नि तुष्टाव मुनिसत्तमः । एतस्मिन्नन्तरे राजा मिथिलाया अधीश्वरः ॥ १३१ वाजपेयं क्रतुं यष्णुमारेभे द्विजसत्तमैः। तं द्रष्टुं प्रययुः सर्वे विश्वामित्रपुरोगमाः॥ १३२ मुनयो रघुशार्दूलसहिताः पुण्यचेतसः । गच्छतस्तस्य रामस्य पादाब्जेन महात्मनः॥ १३३ अभूत्सा पावनीभूता समाक्रान्ता महाशिला । सोऽपि शप्ता पुरा भ; गौतमेन द्विजन्मना १३४ अहल्या रघुनाथस्य पादस्पर्शाच्छुभाऽभवत् । अथ संप्राप्य नगरी मिथिलां मुनिसत्तमाः १३५ राघवाभ्यां तु ते सर्वे बभूवुः प्रीतमानसाः। समागतान्महाभागान्दृष्ट्वा राजा महाबलः ॥१३६ प्रत्युद्गम्य प्रणम्याथ पूजयामास मैथिलः । रामं पद्मविशालाक्षमिन्दीवरदलप्रभम् ॥ १३७ पीताम्बरधरं मुंग्धं कोमलावयवोज्ज्वलम् । अवधीरितकंदर्पकोटिलावण्यमुत्तमम् ॥ १३८ सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् । स्वस्य हृत्पद्ममध्ये यः परेशस्य तनोहरिः॥ १३९ उत्पन्नो दीपवदीपात्सोशील्यादिगुणः परैः । तं दृष्ट्वा रघुनाथं स जनको हर्षमानसः॥ १४० परेशमेव तं मेने रामं दशरथात्मजम् । पूजयामास काकुत्स्थं धन्योऽस्मीति ब्रुवन्नृपः॥ १४१ प्रसादं वासुदेवस्य विष्णोर्मेने नरेश्वरः । प्रदानं दुहितुस्तस्मै मनसाऽचिन्तयत्पभुः॥ १४२ आत्मजौ रघुवंशस्य ज्ञात्वा तत्र नृपोत्तमः । पूजयामास धर्मेण वस्त्रैराभरणैः शुभैः॥ १४३ ऋषीन्समर्चयामास मधुपर्कादिपूजनैः । ततोऽवसाने यज्ञस्य रामो राजीवलोचनः॥ १४४ भक्त्वा शैवं धनुर्दिव्यं जितवाञ्जनकात्मजा । अथाऽसौ वीर्यशुल्केन महता परितोषितः॥ ततो धरणिजां तस्मै प्रददौ मिथिलाधिपः । केशवाय श्रियमिव यथापूर्व महार्णवः ॥ १४६ स दूतं प्रेषयामास राघवं मिथिलाधिपः । पुत्राभ्यां सह धर्मात्मा मिथिलायां विवेश ह ॥१४७ वसिष्ठवामदेवाद्यैः सैन्यैः सह महीपतिः । उवास नगरे रम्ये जनकस्य रघूत्तमः ॥ १४८ तस्मिन्नेव शुभे काले रामस्य धरणीसुताम् । विवाहमकरोद्राजा मैथिलेन समर्चितः ॥ १४९ लक्ष्मणस्योर्मिलां नाम कन्यां जनकसंभवाम् । जनकस्यात्म(नु)जस्याथ तनये शुभवर्चसी(सौ)॥
* अत्र तृतीयार्थे द्वितीया । एवमग्रिमश्लोकेऽपि ।
। ५ क.
१ क. च. ज. नृपसत्तमः । २ झ. फ. शापदग्धा । ३ क. ज. झ. फ. लक्षणं । ४ . फ. म् । मच्चापी च. ज. मुदा । झ. फ. समन्वितः ।