________________
६३
२६९ एकोनसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८५३ तां दृष्ट्वा तत्र कौशल्या कैकेयी च सुमध्यमा । अर्धं प्रददतुः शीघ्रं ते तस्यै पायसं स्वकम् ॥५९ तत्प्राश्य पायसं दिव्यं राजपत्न्यः सुमध्यमाः। संपन्नगर्भाः सर्वास्ता विरेजुः शुभवर्चसः ॥६० तासां स्वमेषु देवेशः पीतवासा जनार्दनः । शङ्खचक्रगदापाणिराविर्भूतस्तदा हरिः ॥ अथ काले मनोरम्ये मधुमासि शुचिस्मिते । शुक्ले नवम्यां विमले नक्षत्रे दितिदैवते ॥ ६२ मध्याह्नसमये लग्ने सर्वग्रहशुभान्विते । कौशल्या जनयामास पुत्रं लोकेश्वरं हरिम् ॥ इन्दीवरदलश्यामं कोटिकंदर्पसंनिभम् । पद्मपत्रविशालाक्षं सर्वाभरणशोभितम् ॥ श्रीवत्सकौस्तुभोरस्कं सर्वाभरणभूषितम् । उद्यदिनकरप्रख्यकुण्डलाभ्यां विराजितम् ॥ अनेकसूर्यसंकाशं तेजसा महता वृतम् । परेशस्य तनो रम्यं दीपादुत्पन्नदीपवत् ॥ इशानं सर्वलोकानां योगिध्येयं सनातनम् । सर्वोपनिषदामर्थमनन्तं परमेश्वरम् ॥ जगत्सर्गस्थितिलयहेतुभूतमनामयम् । शरण्यं सर्वभूतानां सर्वभूतमयं शुभम् ॥ समुत्पन्ने जगन्नाथे देवदुन्दुभयो दिवि । विनेदुः पुष्पवर्षाणि वपुः सुरसत्तमाः॥ प्रजापतिमुखा देवा विमानस्था नभस्तले । तुष्टुवुर्मुनिभिः सार्धं हर्षपूर्णाङ्गविह्वलाः॥ जगुर्गन्धर्वपतयो नऋतुश्चाप्सरोगणाः । वबुः पुण्याः शिवा वाताः सुप्रभोऽभूदिवाकरः॥ ७१ जज्वलुस्त्वग्नयः शान्ता विमलाश्च दिशो दश । ततः स राजा हर्षेण पुत्रं दृष्ट्वा सनातनम् ॥ ७२ पुरोधसा वसिष्ठेन जातकर्म तदाऽकरोत् । नाम चास्मै ददौ रम्यं वसिष्ठो भगवांस्तदा ॥ ७३ श्रियः कमलवासिन्या रमणोऽयं महाप्रभुः । तस्माच्छ्रीराम इत्यस्य नाम सिद्धं पुरातनम् ॥ ७४ सहस्रनाम्नां श्रीशस्य तुल्यं मुक्तिप्रदं नृणाम् । विष्णुमासि समुत्पन्नो विष्णुरित्यभिधीयते ॥७५ एवं नामास्य दत्त्वाऽथ वसिष्ठो भगवानृषिः। परिणीय नमस्कृत्य स्तुत्वा स्तुतिभिरेव च ॥७६ संकीर्त्य नामसाहस्रं मङ्गलार्थ महात्मनः । विनिर्ययौ महातेजास्तस्मात्पुण्यतमाद्गृहात् ॥ ७७ राजाऽथ विप्रमुख्येभ्यो ददौ बहुधनं मुदा । गवामयुतदानं च कारयामास धर्मतः ॥ ७८ ग्रामाणां शतसाहस्रं ददौ रघुकुलोत्तमः । वस्त्रैराभरणैर्दिव्यैरसंख्येयैर्धनैरपि ॥ विष्णोः संतुष्टये तत्र तर्पयामास भूसुरान् । कौशल्या च सुतं दृष्ट्वा रामं राजीवलोचनम् ॥ ८० फुल्लारविन्दहस्ताभं पद्मतुल्यपदान्वितम् । तस्य श्रीपादकमले हस्ताजे च वरानने ॥ शङ्खचक्रगदापद्मध्वजवज्रादिचिह्निते । दृष्ट्वा वक्षसि श्रीवत्सं कौस्तुभं वनमालया ॥ तस्याङ्गे सा जगत्सर्वं सदेवासुरमानुषम् । स्मितवक्त्रे विशालाक्षि भुवनानि चतुर्दश ॥ ८३ निश्वासे तस्य वेदांश्च सेतिहासान्महात्मनः । द्वीपानब्धिगिरीस्तस्य जघने वरवणिनि ॥ ८४ नाभ्यां ब्रह्मशिवौ तस्य कर्णयोश्च दिशः शुभाः। नेत्रयोर्वद्विसूर्यो च घ्राणे वायुं महाजवम् ८५ सर्वोपनिषदामर्थं दृष्ट्वा तस्य विभूतयः । दृष्ट्वा भीता वरारोहे प्रणम्य च पुनः पुनः ॥ ८६ हपोश्रुपूर्णनयना प्राञ्जलिवाक्यमब्रवीत् ॥
कौशल्योवाचधन्याऽस्मि देवदेवेश लब्ध्वा त्वां तनयं प्रभो । प्रसीद मे जगन्नाथ पुत्रस्नेहं प्रदर्शय ॥ ८८
ईश्वर उवाचएवमुक्तो हृषीकेशो मात्रा सर्वगतो हरिः । मायामानुपतां प्राप्य शिशुभावाहुरोद सः॥ ८९
७९
१ क. ज. श. फ. अर्धम प्रददतुस्ते त । २ ङ. शुभ्रव । ३ झ. र्णाश्रुवि ।