SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ २६५ पञ्चषष्ट्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १८३९ तेनैव सृष्टौ ब्रह्मेशौ सर्वदेवोत्तमावुभौ । तस्यैवाऽऽज्ञा पुरस्कृत्य वर्तेते ब्रह्मशंकरौ ॥ ४० भीषाऽस्माद्वाति पवनो भिषोदेति दिवाकरः । भीषाऽस्मादग्निश्चन्द्रश्च मृत्युर्धावति पञ्चमः॥ ४१ आसीदेको हरिदेवो नित्यो नारायणः परः । न ब्रह्मा न च ईशानो न च चन्द्रदिवाकरौ ४२ न वा द्यावापृथिव्यौ च नक्षत्राणि दिवौकसः । तस्य विष्णोः परं धाम सदा पश्यन्ति सूरयः एवं सर्वोपनिषदामर्थं हित्वा द्विजोत्तमाः। रागाल्लोभाद्भयाद्वाऽपि अन्यत्र मतिमानसाः ॥ ४४ तं सर्वरक्षकं देवं त्यक्त्वा सर्वेश्वरं हरिम् । कथं पाषण्डमाश्रित्य पूजयामि च शंकरम् ॥ ४५ लक्ष्मीपतिं देवदेवमनन्तं पुरुषोत्तमम् । इन्दीवरदलश्यामं पद्मपत्रायतेक्षणम् ॥ श्रीवत्सलक्षितोरस्कं सर्वाभरणभूषितम् । सदाकुमारं सर्वेषां नित्यानन्दसुखपदम् ॥ ४७ कृष्णं ध्यायेन्महात्मानो योगिनः सनकादयः । यमर्चयन्ति ब्रह्मेशशकाचा देवतागणाः॥ ४८ यस्य पल्ल्याः कटाक्षाधेदृष्ट्या हृष्टा दिवौकसः । ब्रह्मेन्द्ररुद्रवरुणयमसोमधनाधिपाः॥ ४९ यन्नामस्मरणादेव पापिनामपि सत्वरम् । मुक्तिर्भवति जन्तूनां ब्रह्मादीनां सुदुर्लभा ॥ ५० स एव रक्षकः श्रीशो देवानामपि सर्वदा । तमेव पूजयिष्यामि लक्ष्म्या संयुतमीश्वरम् ॥ माप्स्यामि सुसुखेनैव तद्विष्णोः परमं पदम् ।। रुद्र उवाचइति तस्य वचः श्रुत्वा हिरण्यकशिपुस्ततः । क्रोधेन महताऽऽविष्टो जज्वालाग्निरिवापरः ॥ परितो वीक्ष्य देतेयानित्याह क्रोधमूर्छितः ॥ हिरण्यकशिपुरुषाचभीषणैः शस्त्रसंघातैः प्रहादं पापकारिणम् । ममाऽऽनया घातयध्वं शत्रुपूजनतत्परम् ॥ रक्षिता हरिरेवेति वक्ष्यते तेन वै बलात् । अद्यैव सफलं तस्य पश्येयं हरिरक्षणम् ॥ ५४ रुद्र उवाचततोद्यतास्वा देतेया हन्तुं दैत्येश्वरात्मजम् । परिवार्य महात्मानं तस्थुदैत्येश्वराजया ॥ ५५ महादोऽपि तथा विष्णुं ध्यात्वा हृदयपङ्कजे । जपनष्टाक्षरं मन्त्रं तस्थौ गिरिरिवापरः॥ ५६ तं जनुः परितो वीराः शूलतोमरशक्तिभिः । प्रहादस्य वपुस्तत्र हरिसंस्मरणाच्छुभे ॥ ५७ विष्णोः प्रभावादुर्धर्षे वज्रभूतमभूद्भशम् । अथ संप्राप्य तगात्रं महास्त्राणि सुरद्विषाम् ॥ ५८ छिन्नानि च क्षितौ पेतुर्नीलोत्पलदलानि व । अल्पमप्यस्य तद्गात्रं भेत्तुं दैत्या न च क्षमाः॥५९ विस्मितावाङ्मुखास्तस्थुदैत्यराज्ञोऽन्तिके भटाः । तादृग्विधं महात्मानं दृष्ट्वा पुत्रं तेमव्रणम् ॥६० विस्मयं परमं गत्वा दैत्यराक्रोधमूर्छितः। आदिदेश ततः सन्दिन्दशकान्महाविषान् ॥ ६१ वासुकिमभृतीन्भीमान्खादयध्वमिति ब्रुवन् । आदिष्टास्तेन राज्ञाऽथ ते नागाः सुमहाबलाः ६२ ज्वलितास्या महाभीमास्तं चखादुर्महाबलम् । गरुडध्वजभक्तं तं विदश्य गरलायुधाः॥ ६३ निर्विषाश्छिन्नदशना बभूवुरनिलाशनाः । वैनतेयसहस्रेण च्छिन्नगात्राः सुविहलाः॥ ६४ मदुद्रुवुर्दिशः सर्वा वमन्तो रुधिरं भृशम् । तादृग्विधान्महासन्दृिष्ट्वा दैत्यपतिस्तदा ॥ ६५ आदिदेश ततः क्रुद्धो दिग्गजान्सुमदान्वितान् । नोदितास्तेन राज्ञाऽथ दिग्गजाश्च मदोद्धताः + इदमर्थे झ. फ. पुस्तकस्थम् । १ झ. फ. 'त्सकौस्तुभोर' । २ क ज. महावनम्।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy