________________
२६० षष्ट्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१८२७ उदभूत्पथमं तत्र कालकूटं महाविषम् । महापिण्डं महाघोरं संवर्ताग्निसमप्रभम् ॥ दृष्ट्वा प्रवुः सर्वे भयाता देवदानवाः । ततस्तान्विद्रुतान्दृष्ट्वा भयान्सुिरसत्तमान् ॥ ११ तानिवार्याब्रवं वाक्यमहं तत्र शुभेक्षणे । भो भो देवगणाः सर्वे न भेतव्यं विषं प्रति ॥ १२ अहमाहारयिष्यामि कालकूटं महाविषम् । इत्युक्तास्ते मया सर्वे देवा इन्द्रपुरोगमाः॥ १३ साधु साध्विति वाक्या तुष्टुवुः प्रणता भृशम् । तदृष्ट्वा मेघसंकाशं प्रादुर्भतं महाविपम् ॥ १४ ध्यात्वा नारायणं देवं हृदये गरुडध्वजम् । उदयादित्यसंकाशं शङ्खचक्रगदाधरम् ॥ श्रीभूमिसहितं देवं तहकाश्चनकुण्डलम् । एकाग्रमनसा ध्यात्वा सर्वदुःखहरं प्रभुम् । नामत्रयं महामन्त्रं जपन्भक्त्या समन्वितः । तद्विषं पीतवान्घोरमाद्यं सर्वभयंकरम् ॥ १७ नामत्रयप्रभावाच विष्णोः सर्वगतस्य वै । विषं तदभवजीण लोकसंहारकारकम् ॥ १८ अच्युतानन्त गोविन्द इति नामत्रयं हरेः । यो जपेत्प्रयतो भक्त्या प्रणवाद्यं नमोन्तकम् ॥ १९ तस्य मृत्युभयं नास्ति विपरोगाग्निजं महत् । नामत्रयं महामन्त्रं जपेद्यः प्रयतात्मवान् ॥ २० कालमृत्युभयं चापि तस्य नास्ति किमन्यतः । इति नामत्रयेणैव पीतं देवि मया विषम् ॥ २१ ततः प्रहृष्टास्त्रिदशास्तुष्टुवुर्मी सुविस्मिताः । मां प्रणम्य पुनर्देवा ममन्थुः क्षीरसागरम् ॥ २२ [*तस्मिन्प्रमथ्यमाने तु मया देवश्च भामिनि । ज्येष्ठा देवी समुत्पन्ना रक्तस्रग्वाससाऽऽता२३ उत्पन्ना साऽब्रवीदेवाकि कर्तव्यं मयेति वै । तामवंस्तथा देवीं सर्वदेवगणा भृशम् ॥ २४
देवा ऊचु:येषां गृहान्तरे नित्यं कलहः संप्रवर्तते । तत्ते स्थानं प्रयच्छामो वस तत्राशुभान्विता ॥ २५ यस्य गेहे कपालास्थि भस्मकेशादिचिह्नितम् । परुपं भाषणं नित्यं वदन्त्यनृतवादिनः॥ २६ संध्याकाले तु ये पापाः स्वपन्ति मलचेतसः । तेषां वेश्मनि संतिष्ठ दुःखदारिद्यदायिनी ॥२७ कपालकेशभस्मास्थितुपाङ्गाराणि यत्र तु । तत्र ते सततं स्थानं भविष्यति न संशयः॥ २८ यस्य वेश्म कपालास्थिभस्मकेशादिचिह्नितम् । तद्भजस्थाशुभे नित्यं कलिना सह नित्यशः।। २९ अकृत्वा पादयोः शौचं यस्त्वाचामति दुर्मतिः। तं भजखं महादेवि कलुषेण भृशं वृतम् ॥ ३० तुषाङ्गारकपालाश्मवालुकावस्त्रचर्मभिः । दन्तधावनकर्तारो भविष्यन्ति नराधमाः ॥ ३? क्रमख कलिना देवि तेषां वेश्मसु नित्यशः । तिलपिष्टं कलशं च कलिङ्गं शिग्रुगृञ्जनम् ॥ ३२ छत्राक विड्वराहं च पित्वं कोशातकीफलम् । अलावू च पलाण्डं च ये खादन्ति नराधमाः॥ तेषां गेहे तव स्थानं देवि दारिद्यदे सदा ॥
रुद्र उवाचइत्यादिश्य सुराः सर्वे तां ज्येष्ठां कलिवल्लभाम् । पुनश्च मन्यनं चक्रुः क्षीराब्धेः सुसमाहिता।। ततश्च वारुणी देवी समुत्पन्ना शुभानने । अनन्तो नागराजोऽथ तां जग्राह सुलोचनाम् ॥ ३५ ततस्तत्र समुत्पन्ना सर्वाभरणभूषिता । वैनतेयस्य भार्याऽभूत्सर्वलक्षणशोभिता ॥ ३६ ततोऽप्सरोगणा दिव्या गन्धर्वाश्च महौजसः । जज्ञिरे रूपसंपन्नाः सोमसूर्याग्निवर्चसः ॥ ३७
* इदमध झ. फ. पुस्तकस्थम् ।
झ.फ.म् । तृणाहार।
४ क. रमस्व । ५ न. शः । नील'।
१ . ज. रम्ये । २ झ. फ. 'स्व सदा दे। ६ क. ज. मधुगायनतत्पराः ।