________________
१९७सप्तपञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८१७ तत्र कर्मानुरूपेण त्रिदशादिषु योनिषु । संस्थिताः प्रकृतौ पूर्वमात्मनः प्रभवन्ति हि ॥ १०३ इति श्रीमहापुराणे पाद्म उत्तरखण्डे परमव्योमादिवर्णनं नान षट्पञ्चाशदधिकद्विशततमोऽध्यायः ।। २५६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४५७९५
भथ सप्तपश्चाशदधिकद्विशततमोऽध्यायः ।
पार्वत्युवाचविस्तरेण ममाऽऽख्याहि देवसर्गमनुत्तमम् । ब्रह्मादित्रिदिवश्रेष्ठाः कथं जाताः सनातनाः ॥ ईश्वरस्यावतारांश्च विस्तरेण वदस्व मे ॥
श्रीरुद्र उवाचआकाशानिलतेजाम्बुभुवः सृष्ट्वा यथाक्रमम् । तासां मध्येऽसृजब्रह्मा अगाधजलमर्णवम् ॥ २ अस्मिन्नेकार्णवीभूते जले मायावटच्छदे । आदाय सर्वभूतानि योगनिद्रां ययौ हरिः॥ १ जगत्संस्रष्टुकामस्तु योगनिद्रामुपेयिवान् । तया रेमे चिर कालं मायया मधुसूदनः ॥ तस्यां तु जनयामास कालात्मानमनुत्तमम् । कलाकाठामुहूर्ता ये पक्षमासादिरूपिणः ॥ तस्मिन्काले हरेर्नाभिपङ्कजं मुकुलाकृति । विकसत्सर्वजगतो बीजभूतं सुवर्चसम् ॥ उत्तस्थावुदभूत्तत्र ब्रह्मा च सुमहामतिः । स जगत्स्रष्टुकामस्तु रजोगुणविचोदितः ॥ तुष्टाव योगनिद्रायां शयानं परमेश्वरम् ॥
ब्रह्मोवाच-~ नमोऽस्तु विष्णवे तुभ्यं सर्गस्थित्यन्तहेतवे । जगद्भूषणभूषाय श्रीमते विश्वरूपिणे ॥ ८ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ९ मधानकालरूपाय पुरुषायेश्वराय च । नमः प्रपश्चरूपाय निष्पपश्चस्वरूपिणे ॥ १० नारायणाय विश्वाय विश्वेशाय नमो नमः । श्रीभूलीलाधिपतये ब्रह्मणे परमात्मने ॥ ११ नमोऽस्तु वासुदेवाय विश्वरूपाय शार्जिणे । त्रयीनाथाय हरये विश्वनाथस्वरूपिणे ॥ १२ अनन्तकल्याणगुणपरिपूर्णाय ते नमः। जगच सर्व स्वपिति त्वयि सुप्ते जगन्मये ॥ १३ वृतं सर्व जगन्नाथ प्रपञ्चसचराचरम् । त्वमेव कारणं कर्ता कार्य च त्रिगुगोद्भवम् ॥ १४ स्रष्टा धाता विधाता च त्वमेव परमेश्वरः । जागर्षि शुद्धसत्त्वस्थस्तव निद्रा कुतः प्रभो ॥ देव त्वयि स्थिता लोकाः समादिष्टाः सनातनाः ॥
शिव उवाचएवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः । उत्तस्यौ शयनात्तस्माद्विमुक्तो योगनिद्रया ॥ १६ नियम्य योगनिद्रां तां जगत्स्रष्टुं प्रचक्रमे । अचिन्तयत्क्षणान्दे(दे)वो जगतां प्रभुरच्युतः॥ १७ चिन्तयित्वा जगत्सर्वमसृजत्स पुमांस्ततः । लोकैश्च सर्वैश्च तदा युक्तमण्डं हिरण्मयम् ॥ १८ सप्तद्वीपां समुद्रान्तां मेदिनीं भूधरैर्युताम् । सहकाण्डकटाहेन नाभिपोऽसृजत्प्रभुः॥ १९ तदण्डमध्ये चाऽऽस्थानमीश्वरः कृतवान्हरिः । अथ नारायणः काममध्यायताऽऽत्मचेतसा।।२०
१ क. प्रचण्डरू। २ झ. फ. 'ये वेदार्थाम
।
२२८