________________
२६४चतुप्पञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८०९ तस्मात्त मनसा क्षेत्रस्वातन्त्र्यं प्रतिषिध्यते । भगवत्परतत्रोऽसौ तदायत्तात्मजीवनः॥ ४४ तस्मात्साधनकर्तृत्वं चेतनस्य न विद्यते । ईश्वरस्यैव संकल्पाद्वर्तते सचराचरम् ॥ ४५ तस्मात्स्वसामर्थ्यविधि त्यजेत्सर्वमशेषतः । ईश्वरस्य तु सामर्थ्यान्नालभ्यं तस्य विद्यते ॥ ४६ तस्मिन्यस्तभरः श्रीशे तत्कर्मैव समाचरेत् । परमात्मा हरिर्दासः स्यामहं तस्य सर्वदा ॥ ४७ इच्छया विनियोक्तव्यस्तस्यैवाऽऽत्मेश्वरस्य हि । इत्येवं मनसा त्यक्त(त्याज्य)महंताममतोर्जितम् देहेष्वहंमतिर्मूलं संसृतौ कर्मबन्धने । तस्मान्महदहंकारौ मनसा वर्जयेद्बुधः ॥ ४९ अथ नारायणपदं वक्ष्यामि गिरिजे शुभे । नारा इत्यात्मनां संघस्तेषां गतिरसौ पुमान् ॥ ५० तान्येव चायनं तस्य तस्मान्नारायणः स्मृतः। सर्वे हि चिदचिद्वस्तु श्रूयते दृश्यते जगत् ॥ ५१ योऽसौ व्याप्य स्थितो नित्यं स वै नारायणः स्मृतः।नारास्त्विति स वै पुंसां समूहः परिकीर्तितः गतिरालम्बनं तेषां तस्मानारायणः स्मृतः। नराज्जातानि तत्त्वानि नारा इति जगुर्बुधाः ॥५३ तान्येव चायनं तस्य तेन नारायणः स्मृतः । कल्पान्तेऽपि जगत्कृत्स्नं ग्रसित्वा येन धार्यते ५४ पुनः संसृज्यते येन स वै नारायणः स्मृतः। चराचरं जगत्कृत्स्नं नार इ(मि)त्यभिधीयते ॥५५ तस्य वा संगतिर्येन तेन नारायणः स्मृतः । नारो नराणां संघातस्तस्यास्याप्ययनं गतिः ।।५६ तेनास्मिन्मुनिभिनित्यं नारायण इतीरितः। प्रभवन्ति यथा लोका महाब्धौ पृथुफेनवत (?) ५७ पुनयेस्मात्मलीयन्ते तस्मानारायणः स्मृतः। यो वै नित्यपदो नित्यो नित्ययुक्तैकभोगवान् ५८ ईशः सर्वस्य जगतः स वै नारायणः स्मृतः। दिव्य एकः सदानित्यो हरिर्नारायणोऽच्युतः ।। यत्र द्रष्टा च द्रष्टव्यं श्रोता श्रोतव्यमेव च । स्पष्टा स्पष्टव्यं च तथा ध्याता ध्यातव्यमेव च ६० वक्ता च वाच्यं ज्ञाता च ज्ञातव्यं चिदचिजगत् । तच्च सर्व हरिः श्रीशो नारायण उदाहृतः।। सहस्रशी पुरुषः सहस्राक्षः सहस्रपात् । स लोकान्सर्वतो व्याप्य अत्यतिष्ठदशाङ्गुलम् ॥ ६२ यद्भूतं यच्च भाव्यं च सर्व नारायणो हरिः । उतामृतत्वस्येशानो यदन्नेन विराद पुमान् ॥ ६३ स एव पुरुषो विष्णुर्वासुदेवोऽच्युतो हरिः। हिरण्मयोऽथ भगवानमृतः शाश्वतः शिवः ॥ ६४ पतिर्विश्वस्य जगतः सर्वलोकेश्वरः प्रभुः। हिरण्यगर्भः सविता अनन्तोऽसौ महेश्वरः॥ ६५ भगवानितिशब्दोऽयं तथा पुरुष इत्यपि । वर्तते निरुपाधिश्च वासुदेवोऽखिलात्मनि ॥ ६६ ईश्वरो भगवान्विष्णुः परमात्मा जगत्सुहृत् । शास्ता चराचरस्यैको यतीनां परमा गतिः ॥६७ यो वेदादी स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः। तस्य प्रकृतिलीनस्य यः परः स महेश्वरः॥६८ योऽसावकारो वै विष्णुर्विष्णुर्नारायणो हरिः। स एव पुरुषो नित्यः परमात्मा महेश्वरः ॥६९ यस्मिन्नीश्वरसंज्ञाऽपि प्रोच्यते मुनिभिस्तथा। निरुपाधीश्वरत्वं हि वासुदेवे प्रतिष्ठितम् ॥ ७० आत्मेश्वर इति प्रोक्तो वेदवादैः सनातनैः । तस्मान्महेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ॥ ७१ असौ त्रिपादभूतेषु लीलया अपि चेश्वरः । विभूतिद्वयमैश्वर्य तस्यैव सकलात्मनः ॥ ७२ श्रीभूलीलापतिर्योऽसावच्युतः स उदाहृतः । तस्मात्सर्वेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ॥ ७३ योऽसौ यज्ञेश्वरो यज्ञो यज्ञभुग्यज्ञकृद्विभुः । यज्ञभृयज्ञपुरुषः स एव परमेश्वरः ॥
यज्ञेश्वरो हव्य॑समस्तकव्यभोक्ताऽव्ययात्मा हरिरीश्वरोऽत्र ।
तत्संनिधानादपयान्ति सद्यो रक्षांस्यशेषाण्यसुराश्च भूताः ॥ १ अ. साऽऽच्छन्नं स्वा' । २ अ. तिपद्यते । ३ ख. द. सुभम् । ४ क. योगिनां । ५ द. वेदे हीश्वरः । ६ झ. य. व्यकव्यसमस्तभो।
७४
७५