________________
२५
२४१ एकचत्वारिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् । एवं (रात्रौ) प्रजागरं कुर्यात्पतियामं विशेषतः । ध्यानं च श्रवणं नित्यं शिवधर्मागमेन तु ॥२० शिवमवजपं कृत्वा प्रभाते विमले पुनः। दानं भक्त्या(दत्त्वा) च भक्तानां ब्राह्मणानां विशेषतः बालवृद्धातुराणां च शक्त्या च परितोषयेत् । योगिनामन्नपानाभ्यामक्षसूत्रकमण्डलू ॥ कौपीनाच्छादनं दण्डं भिक्षापात्रं च भस्म च । ददद्वित्तानुसारेण गुरुं संपूजयेत्ततः॥ २३ हेमाङ्गलीयवस्त्राद्यगन्धपूजा(पुष्पा)दिभिः शुभैः । संपूज्य प्रार्थयेत्पश्चात्कृताञ्जलिपरिग्रहः ॥ २४ त्वदाज्ञया कृतं सर्व शिवरात्रिमहाव्रतम् । अनुगृह्नाप्न मां नित्यमपराध क्षमस्व मे ॥ व्रतं कर्तुमशक्तश्वेच्चलचित्तश्च मानवः । अथवाऽन्यप्रकारेण जागरं कारयेत्पुनः॥ गेयनृत्योपहारैश्च स्तोत्रमङ्गलवादनः । नानाश्चर्यप्रदानेवो नानाविधफलान्वितैः ॥ २७ शिवरायां विशेषैर्वा शिवक्षेत्रे विशेषतः । येन केनाप्युपायेन शिवराव्यामुपोषितः ॥ २८ जागरं कारयेद्धीमान्पातकैः स प्रमुच्यते । पुरुषो वाऽथ नारी वा कुमारो वाऽथ कन्यका ॥२९ किं न विन्देत देवेशि शिवरात्रिमहोत्सवे । भर्तृहीना च या नारी शिवरायुपवासतः ॥ ३० तस्मात्तिष्ठति मङ्गल्यं सुचिरं कालमक्षयम् । चान्द्रायणसहस्रैश्च प्राजापत्यशतैरपि ॥ ३१ मासोपवासैरन्यैश्च यत्फलं लभते च सः। ततः कोटिफलं(गुणं) लब्धं शिवरात्रिप्रजागरात्॥३२ सर्वयज्ञतपोदानतीर्थवेदेषु यत्फलम् । तत्सर्व लभते देवि शिवरात्रिमहाव्रती ॥ संवत्सरं प्रतिदिनं तपसा यत्फलं भवेत् । तत्सर्व त्रिगुणीकृत्य शिवराव्यामुपोपितः ॥ ३४ जन्मकोटिसहौस्तु यत्फलं पूर्वसंचितम् । तत्फलं तस्य देवेशि शिवरात्रिप्रजागरात् ॥ ब्रह्महा गुरुघाती च वीरहा भ्रूणहा तथा । मद्यपश्च तथा गोनो मातृहा पितृहा तथा ॥ ३६ स्तेयी सुवर्णस्तेयी च गुरुतल्परतः सदा । मुच्यते कृपलीसक्तः शिवरात्रिप्रजागरात् ॥ ३७ परदारप्रवर्षी च देवब्रह्मस्वहा तथा । मुच्यते मित्रघाती च कृतन्नोऽपि वरानने ॥ ३८ विव(वीर्य)पच्यावकश्चैव लिङ्गप्रध्वंसकस्तथा । मुच्यते नात्र संदेहः शिवरायां शिवार्चनात् ॥३९ वाचिकानि विचित्राणि मानसानि महान्ति च । कायिकानि सहस्राणि तथा सांसर्गिकाणि च भित्त्वा विमुच्यते सर्वः शिवरात्रिप्रजागरात् । अस्थिमज्जागतं पापं सर्वजन्मान्तरैरपि ॥ ४१ वुद्ध्याऽबुद्ध्या च देवेशि यदि वा वारुणी पिवेत् । मुच्यते नात्र संदेहः शिवरात्रिप्रजागरात् ॥ अजपित्वा हुताशी च अदाता च विमुच्यते। यो लब्ध्वा देवि मानुष्यमल्पस्वपि च जन्मसु ॥ ४३ अचेयदेश्वरं लिङ्गं विनेशं षण्मुखं तथा । अधीत्य शिवविद्यां च परेभ्यो न वदन्ति ये ॥ ४४ विवृण्वन्ति न शृण्वन्ति तमोपहतचेतसः । तेपां पापानि नश्यन्ति शिवरात्रिप्रजागरात् ॥ ४२ ये निन्दन्त्यैश्वरं मार्गमाश्चर्य धर्मदर्शनम् । वेदांश्च शिवभक्तांश्च वैदिकाचारमेव वा ॥ ४६ नश्यन्ति तानि(तेषां) पापानि शिवरात्रिप्रजागरात् । अर्चितं शंकरं दृष्ट्वा न नमन्त्यल्पवुद्धयः ॥ येषां न राजते देवि ललाटं भस्मकैः शुभैः। तेषां पापानि नश्यन्ति शिवरात्रिपजागरात् ॥ ४८ उत्तमाओं जटा येषां संसारभयनाशिनी । प्राञ्जलि वा सदा मह्यं न नमन्ति च शोभने ॥ ४९ तेषां पापानि नश्यन्ति शिवरात्रिप्रजागरात् । न पश्यन्त्यैश्वरं लिङ्गं दिनं प्रत्यमरेश्वरि ॥ ५० ये तु वा नापि गच्छन्ति शिवक्षेत्रेषु मानवाः । तेपां पापानि नश्यन्ति शिवरात्रिप्रजागरात् ५१ ये च ब्रह्मादिभिस्तुल्यं त्वां मां लक्ष्म्या च शक्तिभिः। गुरुं ये प्राकृतैः सार्ध संस्मरन्ति वदन्ति ये तेषां पापानि नश्यन्ति शिवरात्रिप्रजागरात् । पर्वमैथुनकारः परदाराभिगामिनः ॥ ५३ ये परित्यागसंयुक्ताः पुनः सङ्केन बाधिताः। शिवलिङ्गं महापुण्यं ये स्पृशन्ति न ते कचित्॥५४