________________
१७३४ महामुनिश्रीव्यासप्रणीतं---
[ ६ उत्तरखण्डेसीमन्तोऽप्यष्टमे मासि गर्भरूपसमृद्धिकृत् । सुखप्रसवसिद्ध्यै च तेनाकारि क्रियाविदा ॥ १५: तनयस्तपनाकारो मरुद्वत्यामजायत । देवदुन्दुभयो नेदुः प्रसेदुः सर्वतो दिशः॥ १६ कल्याणी सर्वतो वाणी प्राणिनः प्रीणयन्त्यभून् । तिलोत्तमाद्यप्सरसो देवेन्द्राधमरा अपि ॥१७ वेदव्यासादिमुनयस्तच्छान्त्यर्थ समाययुः । जातकर्म स्वयं चक्रे वेदव्यासो महामुनिः ॥ १८ नामकर्म ततश्चक्रे मुनिरेकादशेऽहनि । वेदोक्तैर्विविधैर्मन्त्रैराशीभिरभिनन्द्य च ॥ १९ कृत्वा बालोचितां रक्षां तेन संभाविता ययुः । अहो रूपमहो तेजस्त्वहो सर्वाङ्गलक्षणम् ॥ २० अहो मरुद्वतीभाग्यादाविरासीत्स्वयं हरः । इति हृष्यन्ति चान्योन्यं पौरजानपदा जनाः ॥२१ निष्क्रामो वै चतुर्थेऽस्य मासि पित्रा कृतो गृहात् । अन्नप्राशनमन्दा चूडायर्धाब्दिकद्वये ॥२२ कर्णवेधं ततः कृत्वा श्रवणः स कर्मवित् । ब्रह्मतेजोभिवृद्धयर्थं पञ्चमेऽब्दे व्रतं ददौ ॥ २३ । उपाकर्म ततः कृत्वा वेदमध्यापयत्सुधीः । वेदान्स विधिनाऽध्यैष्ट साङ्गोपाङ्गपदक्रमान् ॥ २४ विद्याजातं समस्तं च साक्षिमात्राद्गुरोमुखात् । विनयादिगुणानाविष्कुर्वञ्जग्राह शक्तिमान् ॥ २५ भिक्षाशनरतो नित्यं पित्रोः शुश्रूषणे रतः। संपाते षोडशेऽब्दे तु मार्कण्डेयस्य धीमतः॥ २६ मृकण्डुः शोकदीनात्मा विललापाऽऽकुलेन्द्रियः । मार्कण्डेयोऽपि तं दृष्ट्वा विलपन्तं सुदुःखितम्॥ उवाच पितरं किं ते कारणं शोकमोहयोः । मार्कण्डेयस्य वाक्यं तच्छ्रुत्वा सुमधुराक्षरम् ॥ . उवाच कारणं तस्मै शोकस्यापि सहेतुकम् ॥
मृकण्डुरुवाचतव हेतोरहं वत्स शोचामि शृणु मे वचः। आयुः षोडश वर्षाणि तव दत्तं पिनाकिना ॥ स कालोऽयमिह प्राप्तस्तस्माच्छोचामि नन्दन ॥
वसिष्ठ उवाचपित्रेति कथितं श्रुत्वा मार्कण्डेयोऽब्रवीदिति । मनिमित्तः पितः शोकं कदाचिदपि मा कृथाः३० यतिष्यामि तथा तात यथा यास्याम्यमर्त्यताम् । समाराध्य महादेवं वाञ्छितार्थप्रदं शिवम् ३१ मृत्युंजयं विरूपाक्षं सर्वशं सर्वदं सताम् । कालकालं महाकालं कालकूटविषाशिनम् ॥ ३२ इति श्रुत्वा वचस्तस्य पितरावतिहर्षितौ । सर्व शोकं परित्यज्य प्रहृष्टावूचतुः सुतम् ॥ ३३
पितरावूचतुःआवयोः शोकनाशाय महोपायः समीरितः। मृत्युंजयस्य देवस्य समाराधनलक्षणः॥ ३४ तद्गच्छ शरणं तात नातः परतरं हितम् । मनोरथपथातीतकारिणं कालहारिणम् ॥ ३५ किं न श्रुतं त्वया तात श्वेतकेतुं यथा पुरा । पाशितं कालपाशेन ररक्ष त्रिपुरान्तकः ॥ ३६ शिलादतनयं मृत्युग्रस्तमष्टाब्दमर्भकम् । शिवो निजपदं चक्रे नन्दिनं विश्वनन्दिनम् ॥ क्षीरोदमथनोद्भूतं प्रलयानलसंनिभम् । पीत्वा हालाहलं घोरमरक्षद्भुवनत्रयम् ॥ जलंधरं महादपै हृतत्रैलोक्यसंपदम् । चरणाङ्गुष्ठरेखोत्यचक्रेणाभिजघान यः॥ योऽसावेकेषुपातोत्थज्वलनैत्रिपुरं पुरा । विधाय पत्रिणं विष्णुं ज्वलयामास धूजटिः॥ अन्धकं यस्त्रिशूलाग्रे प्रोतं वर्षायुतं पुरा । त्रैलोक्यैश्वर्यसंमूढं शोषयामास भानुना ॥ कामं रष्टिनिपातेन त्रैलोक्यविजयोजितम् । निनायानङ्गपदवीं वीक्षमाणेष्वजादिषु ॥ तं ब्रह्माधाकर्तारं मेघवाहनमच्युतम् । प्रयाहि विश्वशरणं विश्वरक्षामणिं शिवम् ।।