________________
१६ षोडशोऽध्यायः ] पद्मपुराणम् ।
१२७३ दिनानि कतिचिन्मने शिवकार्य जगत्पतिः । एकदा सुरतस्यान्ते स्वांसकण्ठे तपस्विनम् ॥ ४६ वृन्दा ददर्श संलग्नं द्विभुजं पुरुषोत्तमम् । तं दृष्ट्वा माह सा कण्ठाद्विमुच्य भुजबन्धनम् ॥ ४७
वृन्दोवाचकथं तापसरूपेण त्वं मां मोहितुमागतः ॥
नारद उवाचनिशम्य वचनं तस्याः सान्त्वयन्माह तां हरिः॥
- हरिरुवाचशृणु वृन्दारिके त्वं मां विद्धि लक्ष्मीमनोहरम् । तव भर्ता हरं जेतुं गौरीमानयितुं गतः ॥ ५० अहं शिवः शिवश्चाहं पृथक्त्वेन व्यवस्थितौ । जालंधरो हतः संख्ये भज मामधुनाऽनघे ॥ ५.
नारद उवाच-- इति विष्णोर्वचः श्रुत्वा विषण्णवदनाऽभवत् । ततो वृन्दारिका राजन्कुपिता प्रत्युवाच ह ॥५२
वृन्दोवाचरणे बद्धोऽसि येन त्वं जीवन्मुक्तः पितुर्गिरा । विविधैः सत्कृतो रत्नैर्युक्तं तस्य हृता वधुः।। ५३ पतिर्धर्मस्य यो नित्यं परदाररतः कथम् । ईश्वरोऽपि कृतं भुङ्क्ते कर्मेत्याहुर्मनीषिणः॥ ५४ अहं मोहं यथा नीता त्वया मायातपस्विना । तथा तव वधूं मायातपस्वी कोऽपि नेप्यति ॥५५
नारद उवाचइति शसस्तया विष्णुजंगामादृश्यतां क्षणात् । सा चित्रशाला पर्यङ्कः स च तेऽथ प्लवंगमाः॥५६ नष्टं सर्व हरौ याति वनं शून्यं विलोक्य सा । वृन्दा प्राह सखी पश्य जिह्यं तद्विष्णुना कृतम् ।। त्यक्तं पुरं गतं राज्यं कान्तः संदेहतां गतः। अहं वने विदित्वैतत्क यामि विधिनिर्मिता ॥५८ मनोरथानां विषयमभून्मे प्रियदर्शनम् । प्राह निश्वस्य चैवाऽऽलिं राज्ञी वृन्दाऽतिदुःखिता ५९ [*मम प्राप्तं हि मरणं त्वं याहि स्मरदूतिके । इत्युक्ता सा तदा प्राह मम त्वं प्राणरूपिणी] ६० तस्यास्तथोक्तमाकर्ण्य इतिकर्तव्यतां ततः । वने निश्चित्य सा वृन्दा गत्वा तत्र महत्सरः ॥ ६१ विहाय दुःखमकरोद्गात्रक्षालनमम्बुना । तीरे पद्मासनं बद्ध्वा कृता निर्विषयं मनः ॥ ६२ शोषयामास देहं स्वं विष्णुसङ्गेन दूषितम् । तपश्चचार साऽत्युग्रं निराहारा सखीसमम् ॥ ६३ गन्धर्वलोकतो वृन्दामथाऽऽगत्याप्सरोगणः। प्राह याहीति कल्याणि स्वर्ग मा त्यज विग्रहम् ६४
गान्धर्व शस्त्रमेतत्रिभुवनविजयि श्रीपतिस्तोषमग्र्यं
नीतो येनेह वृन्दे त्यजसि कथमिदं तद्वपुः प्राप्तकामम् । कान्तं ते विद्धि शूलिप्रवरशरहतं पुण्यलभ्यस्य भूषा
स्वर्गस्य त्वं भवाद्य द्रुतगति च विमानं चण्डि भद्रे भज त्वम् ॥ ६५ श्रुत्वा शास्त्रं वधूनां जलधिजदयिता वाक्यमाह प्रहस्य
स्वर्गादाहृत्य मुक्ता त्रिदशपतिवधूश्चातिवीरेण पत्या । आदौ पात्रं सुखानामहममरजिता प्रेयसी तद्वियुक्ता निर्दुष्टा तद्यतिष्ये प्रियममृतगतं प्रामुयां येन चैव ॥ * धनुश्विद्वान्तर्गतः पाठः क. ख. च. ज. झ. अ. पुस्तकस्थः ।
. फ. 'श्चामरग्राहिणी मे । आ ।