________________
२२० विंशत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । ब्राह्मणं वृद्धहारीतं वैखानसमते स्थितम् । नियमैर्दुष्करैरुग्रेः परिक्षीणकलेवरम् ॥ ४३ अस्थिशेषं महादान्तं विस्फुरत्कर्कशत्वचम् । दधानं हारिणं चर्म वसानं मृदुवल्कलम् ॥ ४४ कुर्वाणं नैगमं जाप्यं नखलोमजटाधरम् । तं वनाश्रमिणं दृष्ट्वा मार्ग दवा ससंभ्रमम् ॥ ४५ प्रणम्य शिरसा राजा कृताञ्जलिरुपस्थितः । अथ राज्ञामलंकारैर्द्विजो निश्चित्य भूमिपम् ॥ उवाच श्रेयसो हेतोः परोपकृतिकाम्यया ॥
वृद्धहारीत उवाचकिमर्थं गम्यते राजन्काले पुण्यतमे शुभे । माघमासे विधा(हा)यव माघस्नानं सरोवरे* ॥ ४७
सूत उवाचप्रत्युवाच ततो राजा नाहं जाने द्विजोत्तम । माघस्नानफलं कीटक्तन्मे कथय विस्तरात् ।। ४८
सूत उवाचइति भूपवचः श्रुत्वा प्राह वैखानसो मुनिः ॥
४९ वृद्धहारीत उवाचभगवान्बुमणिः शीघ्रमभ्युदेति तमो हरन् । स्नानकालोऽयमस्माकं न कथावसरो नृप ॥ स्नात्वा गच्छ वसिष्ठं त्वमापृच्छ स्वकुलप्रभुम् ॥
सूत उवाचइत्युक्त्वा तापसो मौनी माघस्नानाय निर्गतः। प्रत्यावृत्य दिलीपोऽपि तत्र स्नात्वा यथाविधि। पुनः स्वनगरं वीरो गतोऽसौ हर्षपूरितः । स्वान्तःपुरे निवेद्याथ वानप्रस्थकथां नृपः॥ ५२ श्वेताश्वं रथमारुह्य सुश्वेतच्छत्रचामरः। सालंकारः सुवासाश्च मुंपुष्पो मन्त्रिभिः सह ॥ ५३ जयशब्दान्पुरः शृण्वन्स्तुतो मागधबन्दिभिः । वसिष्ठस्याऽऽश्रमं यात ऋषिवाक्यमनुस्मरन् ॥५४ नत्वा ब्रह्मऋषि तत्र विनयाचारपूर्वकम् । दत्तासनो गृहीताये आशीभिः कृतमङ्गलः॥ ५५ सानन्दं मुनिना पृष्टः कुशलं भूपते सदा । तदोमित्यब्रवीद्राजा हर्पयन्मुनिमानसम् ॥ सोऽथ वैखानसेनोक्तं पृष्टवान्मधुराकृतिः॥
दिलीप उधाचभगवंस्त्वत्प्रसादेन श्रुतो विस्तरतो मया । आचारो दण्डनीतिश्च राजधर्माश्च येऽपरे ।। ५७ चतुर्णामपि वर्णानामाश्रमाणां च याः क्रियाः। दानानि तद्विधानानि यज्ञास्तद्विधयस्तथा॥५८ बतानि तत्प्रतिष्ठाश्च विष्णोराराधनं तथा । अधुना श्रोतुमिच्छामि माघस्नानस्य यत्फलम् ।। विधेयं यद्विधानेन तन्मे ब्रह्मन्मुने वद ॥ . वसिष्ठ उवाचसम्यगुक्तं परं श्रेयो लोकत्रयहितावहम् । निर्मलीकरणं तेन मुनिना वनवासिना ।। ६० अहं च ते वदाम्यद्य माघस्नानफलं शृणु । ऋतुयुक्कामिनीनां ये प्रत्यासत्तिमखण्डिताम् ॥ ६१ कामयन्ते मृगार्के ते सांतसि स्नान्तु सर्वदा । विना वह्नि विना यङ्गमिष्टापूर्त विनाऽपि ये ॥६२ वाञ्छन्ति सद्गतिं स्नान्तु पाताघे बहिर्जले । गोभूमितिलवासांसि स्वर्णधान्यादिकानि च ६३
* र. ल. पुस्तकयोरध्यायसमाप्तिः । १र.ल म् । तपमा कृशदेहं तं वि' । २ र. ल. नियम । ३ र. ल. मंतो।