SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 7 १९३ त्रिनवत्यधिकशततमोऽध्यायः ] सूत उवाच - इति तद्वाक्यमाकर्ण्य गोकर्णो विस्मयं गतः । गोकर्ण उवाच शतश्राद्धैर्न मुक्तिश्वेदसाध्यं मोचनं तव । इदानीं तु निजं स्थानमातिष्ठ प्रेत निर्भयः ॥ त्वन्मुक्तिसाधनं किंचिदाचरिष्ये विचार्य च ॥ सूर्य उवाचश्रीमद्भागवतान्मुक्तिः सप्ताहे वाचनं कुरु || पद्मपुराणम् । १६०९ २०२ ३४ सूत उवाच - धुन्धुकारी निजं स्थानं तेनाऽऽदिष्टस्ततो गतः । गोकर्णश्चिन्तयन्रात्रौ न च तस्यां तदध्यगात् ॥ प्रातस्तमागतं दृष्ट्वा लोकाः प्रीत्या समागताः । तत्सर्वं कथितं तेन यज्जातं च यथा निशि ।। ३७ विद्वांसो योगनिष्ठाश्च ज्ञानिनो ब्रह्मवादिनः । तन्मुक्तिं नैव पश्यन्ति पश्यन्तः शास्त्रसंचयान् ३८ ततः सर्वैः सूर्यवाक्यं तन्मुक्तौ स्थापितं परम् । [ गोकर्णः स्तम्भनं चक्रे सूर्यवेगस्य वै तदा ३९ गोकर्ण उवाच ] - तुभ्यं नमो जगत्साक्षिन्ब्रूहि मे मुक्तिहेतुकम् || सूत उवाच - तच्छ्रुत्वा दूरतः सूर्यः स्फुटमित्यभ्यभाषत ॥ ३५ ४० ४१ ४२ सूत उवाच इति सूर्यवचः सर्वैर्ध्वनिरूपं तु विश्रुतम् । सर्वेऽब्रुवन्प्रयत्नेन कर्तव्यं सुकरं त्विदम् ॥ गोकर्णो निश्चयं कृत्वा वाचनार्थं प्रवर्तितः । तत्र संश्रवणार्थाय देशाद्रामाज्जना ययुः ॥ पङ्खन्धवृद्धमन्दाश्च तेऽपि पापक्षयाय वै । समाजस्तु महाञ्जातो देवविस्मयकारकः ॥ यदैवाssसनमास्थाय गोकर्णोऽकथयत्कथाम् । स प्रेतोऽपि तदाऽऽयातः स्थानं पश्यन्नितस्ततः।। सप्तग्रन्थियुतं तत्रापश्यत्कीचकमुच्छ्रितम् । तन्मूल च्छिद्रमाविश्य श्रवणार्थे स्थितो सौ ॥ ४७ वातरूपी स्थिति कर्तुमशक्तो वंशमाविशत् । वैष्णवं ब्राह्मणं मुख्यं श्रोतारं परिकल्प्य सः ॥ ४८ प्रथमस्कन्धतः स्पष्टं व्याख्यानं धेनुजोऽकरोत् । दिनान्ते रक्षिता गाथा तदा चित्रं बभूव ह ४९ वंशैकग्रन्थिभेदोऽभूत्सशब्दं पश्यतां सताम् । द्वितीयेऽह्नि तथा सायं द्वितीयग्रन्थिभेदनम् ॥ ५० तृतीयेऽह्नि तथा सायं तृतीयग्रन्थिभेदनम् । एवं सप्तदिनैर्वेशसप्तग्रन्धिविभेदनम् || कृत्वाऽपि द्वादशस्कन्धश्रवणात्प्रेततां जहौ । दिव्यरूपधरो जातस्तुलसीदाममण्डितः ॥ ५२ पीतवासा घनश्यामो मुकुटी कुण्डलान्वितः । ननाम भ्रातरं सद्यो गोकर्णमिति चाब्रवीत् ॥ ५३ 1 ५१ धुन्धुकार्युवाच -- त्वयाऽहं मोचितो बन्धो कृपया प्रेतकश्मलात् । धन्या भागवती वार्ता प्रेतपीडाविनाशिनी ।। ५४ सप्ताहोऽपि तथा धन्यः कृष्णलोकफलप्रदः । कम्पन्ते सर्वपापानि सप्ताह श्रवणे स्थिते || ५५ अस्माकं प्रलयं सद्यः कथा चेयं करिष्यति । आर्द्र शुष्कं लघु स्थूलं वाङ्मनःकर्मभिः कृतम् ५६ धनुश्चिद्वान्तर्गतः पाठः ख. छ. उ. य. पुस्तकस्थः । १ य. वयमम् । ४३ ४४ ४५
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy