________________
१६३ त्रिषष्ट्यधिकशततमोऽध्यायः ]
पद्मपुराणम् ।
अथैकषष्ट्यधिकशततमोऽध्यायः ।
१५४१
श्रीमहादेव उवाच -
२
३
वैद्यनाथात्परं तीर्थं सर्वसिद्धिप्रदायकम् | तीर्थानामुत्तमं तीर्थ देवतीर्थमनुश्रुतम् ॥ विभीषणाद्राक्षसेन्द्रागृहीत्वा करमोजसा । प्रारब्धो धर्मपुत्रेण राजसूयो महाक्रतुः ॥ दिग्जये दक्षिणे जाते नकुलेन हि पाण्डुना । साभ्रमत्यास्तटे देवि पाण्डुरार्येति विश्रुता । स्थापिता परया भक्त्या भुक्तिमुक्तिप्रदायिनी । स्नातः साभ्रमतीतोये पाण्डुरार्या नमस्य च ॥४ अणिमाद्याः सिद्धीरष्टौ तथा मेधां महीयसीम् । नरः प्राप्नोति वै नूनं नात्र कार्या विचारणा ५ पाण्डुराय नमस्कृत्य शुद्धभावेन मानवैः । संवत्सरकृता पूजा ज्ञातव्या तत्त्वबुद्धिभिः ।। तत्र तीर्थे तनुं त्यक्त्वा पाण्डुरार्यासमीपतः । कैलासशिखरं प्राप्य चण्डेश्वरगणो भवेत् ।। पुरा हनुमता तत्र तपस्तप्तं सुदुष्करम् । समुद्रप्लवने शक्तिर्जाता तीर्थप्रभावतः ||
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये देवतीर्थवर्णनं नामैकषष्ट्यधिकशततमोऽध्यायः ।। १६१ ॥
आदितः श्लोकानां समथ्र्यङ्काः - ३८९९३
अथ द्विषष्ट्यधिकशततमोऽध्यायः ।
७
८
श्रीमहादेव उवाच
अस्मात्तीर्थात्परं तीर्थं चण्डेशमिति विश्रुतम् । यत्र चण्डेश्वरो देवो नित्यं तिष्ठति भूतिदः ॥ १ यं दृष्ट्वा मुच्यते पापादज्ञानादथवा कृतात् । सर्वाभिर्देवताभिश्व मिलित्वा नगरं कृतम् ॥ चण्डेशमिति विख्यातं नाम्ना चैव महेश्वरि ||
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये चण्डेशतीर्थवर्णनं नाम द्विषष्ट्यधिकशततमोऽध्यायः ।। १६२ ॥
आदितः श्लोकानां समथ्यङ्काः - ३८९९५
अथ त्रिषष्ट्यधिकशततमोऽध्यायः ।
श्रीमहादेव उवाच -
५
अस्मात्तीर्थात्परं तीर्थं गाणपत्यं ततो भुवि । साभ्रमत्याः समीपे तु विख्यातं देवि निर्मितम् १ तत्र स्नात्वा नरो देवि मुच्यते नात्र संशयः । पुण्ये साभ्रमतीतीरे जनानां हितकाम्यया ।। २ पृथिव्यां यानि तीर्थानि सागरान्तानि यानि च । तानि सर्वाणि संत्यज्य तीर्थे वै परमाद्भुते ३ श्राद्धं करोति यस्तत्र रुद्रभक्त्या जितेन्द्रियः । फलं प्राप्नोति शुद्धात्मा सर्वयज्ञसमुद्भवम् ॥ ४ पितृनुद्दिश्य यत्किंचिद्गणतीर्थे प्रदीयते । तत्सर्वं जायते क्षिप्रं गणनाथप्रसादतः ॥ तस्मिंस्तीर्थे नरः स्नात्वा वृषं विप्राय दापयेत् । सर्वलोकानतिक्रम्य स गच्छेत्परमां गतिम् ॥ ६ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये गाणपत्यतीर्थमाहात्यवर्णनं नाम त्रिषष्ट्यधिकशततमोऽध्यायः ॥ १६३ ॥ आदितः श्लोकानां समथ्यङ्काः - ३९००१