________________
८ अष्टमोऽध्यायः ] पद्मपुराणम् ।
१२५१ विष्णुना च विभिन्नाङ्गोऽर्णवसूनुः प्रतापवान् । हरिं संपूरयामास मार्गणी(निरन्तरम् ॥ २९ अस्य बाणशभिन्नो गरुडो मूर्छितोऽपतत् । गरुडं पतितं दृष्ट्वा सिन्धुसूनोः शरैर्भुवि ॥ ३० रथं संस्मारयामास वैकुण्ठस्थं जनार्दनः । स रथस्तस्य संप्राप्तः सूतहीनो हयैर्वृतः॥ ३१ अधैर्युतं रथं दृष्ट्वा विस्मितो भगवान्रणे । स बोधयित्वा गरुडं सारथ्ये समपूजय(यूयुज)त् ३२ स धृत्वा मुकुटं मूर्ति कौस्तुभं हृदये माणिम् । पुरुषार्थान्हयान्कृत्वा ययौ जालंधरं हरिः ।। ३३ मेदिनी रथचक्रेण दारयंश्च सुरैः सह । जघान तरसा बाणैर्दानवानां च वाहिनीम् ॥ ३४ देवराजेन संदिष्टो वीतिहोत्रो रणाङ्गणे । ददाह दानवानीकं समीरणसमन्वितः ।। तदा हतं भगवता दैत्यसैन्यं सुरैः सह । जालंधरः स्वल्पशेषं दध्यौ दृष्ट्वा बलं स्वकम् ॥ ३६ अथाऽऽह भार्गवं राजा मत्सैन्यं निहतं सुरैः। त्वयि तिष्ठति मत्रज्ञे विख्यातो विद्यया भवान्।। किं तया विद्यया ब्रह्मन्ब्राह्मणाथ बलेन च । या न रक्षति रोगातोन्यदलं शरणागतान् ॥. जालंधरवचः श्रुत्वा भार्गवस्तमभाषत ।।
शुक्र उवाचपश्य राजन्मम बलं ब्राह्मणस्य रणाङ्गणे ॥
नारद उवाचइत्युक्त्वा वारिणा स्पृष्ट्वा हुंकारेण प्रबोधिताः । उत्थापितास्ते कविना शरौघैः प्राणहारकैः ४०देवा हता रणे पेतुः समन्तासिन्धुसूनुना । बाणैर्जर्जरदेहास्ते धृतपाणा नराधिप ॥ ४१ न मृतास्त्वमरत्वाच्च बाणैर्भिन्नाश्च सत्तमाः। ततो नारायणो देवो बृहस्पतिमभाषत ॥ ४२
नारद उवाचधिग्बलं दैवतगुरो यो न जीवयसे सुरान् । धिषणस्तु जगन्नाथमुवाच त्वरितं तदा ।।
• बृहस्पतिरुवाच-- ओषधीभिरहं स्वामिञ्जीवयिष्यामि निर्जरान् ॥
४४ नारद उवाचइत्युक्त्वा धिषणः सोऽपि ययौ क्षीरार्णवस्थितम् । द्रोणादि तं तदा गत्वा सुखं गृह्यौषधीचयम् गुरुस्तासां च योगेन जीवयामास निर्जरान् । उत्थितास्ते ततो देवा जमुर्दानववाहिनीम् ॥ देवान्समुत्थितान्दृष्ट्वा वभाषे सिन्धुनः कविम् ।।
जालंधर उवाचविना त्वद्विद्यया काव्य कथमेते समुत्थिताः ॥
नारद उवाचइति दैत्योक्तमाकर्ण्य शुक्रः पाहार्णवात्मजम् ।।
शुक्र उवाचक्षीरसागरमध्यस्थो द्रोणो नाम महागिरिः। ओषध्यस्तत्र तिष्ठन्ति जीवयन्ति च ता मृतान् ४९ तत्र गत्वा सुराचार्यो गृहीत्वौषधिसंचयम् । रणे विनिहतान्देवानुत्थापयति मत्रतः ॥ ५०
. नारद उवाचभार्गवोक्तमथाऽऽकर्ण्य सैन्यभारं महाबलः । शुम्भे निक्षिप्य तरसा ययौ जालंघरोऽर्णवम् ॥५१ अथ प्रविष्टः क्षीराब्धौ वेश्म दिव्यं महाप्रभम् । प्रविश्य तत्र क्षीराब्धेः क्रीडास्थानं ददर्श सः॥