________________
१२९ एकोनत्रिंशदधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५०१
१४६
यदा पुण्यमयो जन्तुः पापं किंचिन विद्यते । ज्ञानं हि द्विविधं चैव तदा पुण्यं सुखं भवेत् १३६ पापं पुण्यं समं यस्य तदा कर्मतनुं लभेत् । समयोगं यदा द्वंद्वं तदाऽऽनन्दपदं व्रजेत् ॥ १३७ बाह्ये सर्वपरित्यागो मनसा संस्पृहा भवेत् । तद्दृथाऽऽचरितं तस्य तेन तत्पापभोगिनः ।। १३८ बाह्ये करोति कर्माणि मनसा निस्पृहो भवेत् । त्यागोऽसौ मध्यमो ज्ञेयो न तु पूर्णफलं लभेत् ॥ बाह्येऽन्तरे परित्यज्य बुद्ध्या शून्यावलम्बनम् । त्यागः स उत्तमो ज्ञेयो योगिनामपि दुर्लभः ॥ क्रोधात्सर्वं त्यजन्त्येके केचिद्वा दत (तद) भावतः । कष्टात्सर्वं त्यजन्त्येके त्यागाः सर्वे तु मध्यमाः स्वबुद्ध्या श्रद्धया युक्तैर्न क्रोधादिवशं गतैः । [*यैरेवं त्यज्यते सर्वे त्यागास्त उत्तमाः स्मृताः ।। योगाभ्यासरतो देही योगपारे न वै गतः ] । कर्मणा चालितो वाऽपि सुगतिं याति मानवः ।। शुचीनां श्रीमतां गेहे धीमतां योगिनामपि । योगाद्धष्टस्तु जायेत कुले वा द्विजपूर्वके ॥ १४४ स्वल्पेनैव तु कालेन पूर्ण योगं च विन्दति । चिदानन्दपदं गच्छेद्योगभक्तिप्रसादतः ॥ १४५ पङ्केनैव यथा पङ्कं रुधिरं रुधिरेण वै । हिंसया कर्मणा कर्म कथं क्षालयितुं क्षमः ॥ हिंसाकर्ममयो यज्ञः कथं कर्मक्षये क्षमः । स्वर्गकामकृता यज्ञाः स्वर्गे ते चाल्पसौख्यदाः ॥ १४७ अनित्यानि तु सौख्यानि भवन्ति च वहून्यपि । नित्यं सौख्यं न तेष्वस्ति विना भक्त्या हरेः कचित् सार्वभौमसुखं राज्यं स्वर्गे चापि तथा सुखम् । अन्यत्किचिन्न वाञ्छामि गर्भवासाद्विभेम्यहम् ॥ ग्रावा हि भिद्यते लोहैर्माणिक्यं नैव भिद्यते । नानाकामनया बुद्ध्या विष्णुभक्तिर्न वि (भि) द्यते बको जलचरान्भुङ्क्ते मण्डूकादींश्च वर्जयन् । तथा यमः सर्वहन्ता वर्जयेत्कृष्णसेवकान् ॥ १५१ यः सृजति सहर्ता च स वै पालक उच्यते । अपराधशतैर्युक्तं स्वस्थाने नय मामितः ।। १५२ तथा कृतापराधस्य कृष्ण त्वं च कृपां कुरु । फलं च लभते बाह्य रक्षकः किं करोति [स्ति ] चेत् एवमात्मा च देहेऽस्मिन्परवश्यः कृपां कुरु । प्राप्तो न पारः शनकैर्मल्लैर्मुक्तिरवापि वा ॥ १५४ व्याधस्य मुक्तिदाता च कुब्जिका तारिता त्वया । ब्रह्माद्यैर्दुर्लभः स्वप्ने सुलभो गोपमन्दिरे १५५ गोपोच्छिष्टं यदा भुक्तं तदा ते तारिताः स्वयम् । योगिभिर्गीयसे नित्यं परमात्मा जनार्दनः ॥ अव्ययः पुरुषः श्रीमान्दृष्ट्वा त्वां त्वत्पदं गताः । विष्णुस्मरणकं दिव्यं ये पठन्ति दिने दिने || सर्वपापविनिर्मुक्ता यान्ति विष्णोः सनातनम् । अनया भावबुद्ध्या च पठनं विष्णुसंनिधौ ॥ इह लोके सुखं भुक्त्वा परं पदमवाप्नुयात् ॥
१५८
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे विष्णुस्मरणमाहात्म्यकथनं नामाष्टाविंशत्यधिकशततमोऽध्यायः ॥ १२८ ॥
आदितः श्लोकानां समथ्यङ्काः – ३८१०४
अथैकोनत्रिंशदधिकशततमोऽध्यायः ।
श्रीपार्वत्युवाच -
पेsस्मिन्यानि तीर्थानि तानि मे वद सुव्रत । द्वीपानां द्वीपराजोऽयं सर्वदा भुवि निर्मितः ॥ संख्यया त्वं वद स्वामिन्कृपां कृत्वा ममोपरि ।
१
* धनुश्चिद्वान्तर्गतः पाठः फ. पुस्तकस्थ: ।
१ ख. र्मन विद्यति । स । ङ. न विन्दति । स । ज. मेसु विद्यते । स ।