SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १२८ अष्टाविंशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । १४९९ तद्वज्जीवाः प्रपद्यन्ते भक्त्या वै पूर्वरूपताम् । सुघनेनाऽऽवृतं सूर्य मूढो मन्येत निष्पभम् ॥ ७५ तथाऽज्ञानधियो मूढा जानन्ति न तमीश्वरम् । निर्विकल्पं निराकारं वेदान्तैः परिपठ्यते ॥ ७६ निराकाराच साकारं स्वेच्छया च प्रकाशते । तस्मात्संजातमाकाशं निःशब्दं गुणवर्जितम् ।।७७ आकाशान्मारुतो जातः सशब्दं च तदाऽभवत् । तस्मात्मजायते ज्योतिज्योतिषश्चाभवजलम् ॥ तज्जले रुक्मगर्भश्च विराड्दै विश्वरूपधृक् । तस्य नाभिसरोजे च ब्रह्माण्डानां च कोटयः ॥ ७९ प्रकृतिः पुरुषस्तस्मान्निभिन्नं तु त्रिधा जगत् । तयोर्द्वयोश्च संयोगात्तत्त्वयोगोऽभ्यजायत ॥ ८० सात्त्विकी विष्णुसंभूतिब्रह्मा वै राजसः स्मृतः । शिवस्तु तामसः प्रोक्त एभिः सर्वे प्रवर्तितम् ।। एषा ब्राह्मी स्थितिलॊके कर्मबीजानुसारतः । तथा संहरते विष्णुः सर्वलोकानशेपतः ॥ ८२ तिष्ठत्यसौ तदा तत्र भगवान्विष्णुरव्ययः । एवं सर्वगतो विष्णुरादिमध्यान्त एव च ॥ ८३ अविद्यया न जानन्ति लोका वै कर्मनिश्चिताः । वर्णोचितानि कर्माणि यः कालेषु प्रकारयेत् ८४ तत्कर्म विष्णुदैवत्यं न हि गर्भस्य कारणम् । वेदान्तशास्त्रं मुनिभिः सर्वदैव विचार्यते ॥ ८५ ब्रह्मज्ञानमिदं दे(तेऽ)हं यत्त्वहं परिकीर्तये । शुभाशुभस्य कार्य च कारणं मन एव हि ॥ ८६ मनसा शुध्यते सर्व तदा ब्रह्म सनातनम् । मन एव सदा बन्धुर्मन एव सदा रिपुः ॥ ८७ मनसा तारिताः केचिन्मनसा पातिताश्च के । मध्ये सर्वपरित्यागी बाह्ये कर्म तथाऽऽचरन् ।।८८ एवमेव कृतं [*कर्म दृश्यते गजदन्तवत् । आकल्पं तु कर्म कुर्वन्कुर्वनपि न लिप्यते ॥ ८९ पद्मपत्रं यथा नीरलेशैरपि न लिप्यते । अग्निरनौ यथा क्षिप्तो मुक्त्या च किं प्रयोजनम् ॥ ९० यदा भक्तिरसो ज्ञातो न मुक्ती रोचते तदा । योगैरष्टविधैर्विष्णुर्न प्राप्यश्चेह जन्मनि ॥ ९१ भक्त्या वा प्राप्यते विष्णुः सर्वदा सुलभो भवेत् । वेदान्तः प्राप्यते ज्ञानं ज्ञानेन ज्ञेयमेव च९२ तत्तु ज्ञेयं यदा प्राप्तं तदा शून्यमिदं जगत् । खेलेन प्राप्यते विष्णुर्योगैरष्टविधैश्च किम् ॥ ९३ सर्वेषामेव भावानां भावशुद्धिः प्रशस्यते । आलिङ्गयते यथा कान्ता यथा भावस्तथा फलम् ९४ उपानद्युक्तपादो हि वेत्ति चर्मवती महीम् । बुद्धिर्यथाविधा यस्य तद्वच मन्यते जगत् ॥ ९५ दुग्धेन सिक्तो निम्बोऽपि कदुभावं न तु त्यजेत् । प्रकृति यान्ति भूतानि ह्युपदेशो निरर्थकः९६ छित्त्वा वै सहकारं च फलं पत्रं कथं लभेत् । इन्द्रियाणां सुखार्थेन वृथा जन्म कथं नयेत् ॥९७ [छित्त्वा कर्पूरखण्डानि कोद्रवाणां च रक्षणम् । सुखेच्छया चेन्द्रियाणां नथा जन्म कथं भवेत॥ सौवर्णलाङ्गले भूमिरर्कतलस्य हेतवे । इन्द्रियाणां सुखार्थेन वृथा जन्म कथं नयेत् ॥ ९९ स्थाल्यां वैदूर्यमय्यां हि पच्यते वृषलं(?) यथा । *दह्यते चागदस्तद्वद्धृथा जन्म कथं भवेत् १०० निधानं च गृहे क्षिप्त्वा शुनः सेवां कथं चरेत् । त्यक्त्वा वैकुण्टनाथं तमन्यमार्गे कथं रमेत १०१ भक्तिहीनैश्चतुर्वेदैः पठितः किं प्रयोजनम् । श्वपचो भक्तियुक्तस्तु त्रिदशैरपि पूज्यते ॥ १०२ स्वकरे कङ्कणं बद्ध्वा दर्पणैः किं प्रयोजनम् । ब्रह्मरुद्रादिभिर्देवैर्दत्तैश्वर्याः स्वसेवकाः ॥ १०३ अर्पितं नैव गृहन्ति प्रभोश्चैव तु किंचन+ । अकिंचनाय भक्ताय दातुं नालं गतो वशे ॥ १०४ * धनुश्चिद्वान्तर्गतः पाठः फ. पुस्तकस्थः । + धनुचिहान्तर्गतः पाठः फ. पुस्तकस्थः । * दुयतेऽजागल इति स्या. दिति भाति । + एतदने फ. पस्तके 'लक्ष्मीर्यस्य गृहे दासी प्रभुत्वं किं तु वर्ण्यते' इत्यर्धमधिकम् । १ क. ज. ब. भक्त्या । २ ज. भुक्ती। ३ ङ. अ. कुलेन । फ. उल्केन । ४ फ. च निम्बे यत्नं कथं चरेत । ५ . 'तेऽजाग । ६ फ. चिन्तया ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy