SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १४५६ महामुनिश्रीव्यासप्रणीतं - नारद उवाच - जगाम विष्णुरित्युक्त्वा पुनर्जालंधरं पुरम् । अथ रुद्रश्च गान्धर्वाद्विमुक्तः संगरे स्थितः ॥ अन्तर्धानगतां मायां दृष्ट्वा स बुबुधे तदा ॥ ततः शिवो विस्मितमानसः पुनर्जगाम युद्धाय जलंधरं रुषा । स चापि दैत्यः पुनरागतं शिवं दृष्ट्वा शरौघैः समवाकिरद्रणे ॥ [ ६ उत्तरखण्डे इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जलंधरोपाख्याने शिवजलंधरसङ्ग्रामो नाम चतुरधिकशततमोऽध्यायः ।। १०४ ।। (१५) आदितः श्लोकानां समथ्यङ्काः – ३६९९८ अथ पञ्चाधिकशततमोऽध्यायः । २९ ३० नारद उवाच - विष्णुर्जालंधरं गत्वा तद्दैत्यपुटभेदनम् । पातिव्रत्यस्य भङ्गाय वृन्दायाचाकरोन्मतिम् ।। / अथ वृन्दा तु सा देवी स्वममध्ये ददर्श ह । भर्तारं महिषारूढं तैलाभ्यक्तं दिगम्बरम् ॥ कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम् । दक्षिणाशां गतं मुण्डं तमसाऽप्याहृतं तदा ॥ स्वपुरं सागरे मनं सहसैवाऽऽत्मना सह । ततः प्रबुद्धा सा बाला तं स्वमं समचिन्तयत् ॥ ददर्शोदितमादित्यं सच्छिद्रं निश्चलं मुहुः । तदनिष्टमिति ज्ञात्वा रुदती भयविह्वला || कुत्रचिन्नालभच्छर्म गोपुराट्टालभूमिषु । ततः सखीद्वययुता नगरोद्यानमागमत् ॥ तत्रापि सा गता वाला नालभत्कुत्रचित्सुखम् । वनाद्वनान्तरं याता नैव वेदाऽऽत्मनस्तदा ॥ ७ ततो भ्रमन्ती सा वाला ददर्शातीव भीषणौ । राक्षसौ सिंहवदनौ दंष्ट्रानयनभासुरौ ॥ ate forsara पलायनपराऽभवत् । ददर्श तापसं शान्तं सशिष्यं मौनमास्थितम् ॥ ९ ततस्तत्कण्ठ आसज्य निजां बाहुलतां भयात् । मुने मां रक्ष शरणमागतामित्यभाषत ॥ १० मुनिस्तां वां दृष्ट्वा राक्षसानुगतां तदा । हुंकारेणैव तौ घोरौ चकार विमुखौ रुषा तद्धंकारभयत्रस्तौ दृष्ट्वा तौ विमुखौ गतौ । प्रणम्य दण्डवद्भूमौ वृन्दा वचनमब्रवीत् ॥ ६ ८ ११ १२ यः पुरा सुखसंवादैर्विनोदयसि मां प्रभो । स कथं न वदस्यद्य वल्लभां मामनागसम् ॥ १ ञ. पदम् । २ झ. ञ. ने दैत्यकपदवर्णनो ना' । ३ भ. निष्प्रभं । ४ भ. तू । मंत्रस्त स भ्रमद्वाला । ३ ४ वृन्दोवाच रक्षिताऽहं त्वया घोराद्भयादस्मात्कृपानिधे । किंचिद्विज्ञमुमिच्छामि कृपया तन्निशामय ।। १३ जलंधरो हि मे भर्ता रुद्रं योद्धुं गतः प्रभो । स तत्रास्ति कथं युद्धे तन्मे कथय सुव्रत ॥ नारद उवाच - १४ १५ १६ मुनिस्तद्वाचमाकर्ण्य कृपयोर्ध्वमवैक्षत । तावत्कपी समायातौ तं प्रणम्याग्रतः स्थितौ ॥ ततस्तलतासंज्ञानियुक्तौ गगनं गतौ । गत्वा क्षणार्धादागत्य वानरावग्रतः स्थितौ ॥ शिरःकन्धहस्तौ च दृष्ट्वाऽब्धितनयस्य सा । पपात मूर्च्छिता भूमौ भर्तृव्यसनदुःखिता ॥ कमण्डलुजलैः सिक्त्वा मुनिनाऽश्वासिता तदा । स्वभर्तृभाले सा भालं कृत्वा दीना रुरोद ह १७ वृन्दोवाच १९
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy