SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ७६ षट्सप्ततितमोऽध्यायः ] पद्मपुराणम् । १४०७ अथ षट्सप्ततितमोऽध्यायः। महादेव उवाचगल्लिकायास्तु माहात्म्यं वक्ष्ये देवि विधानतः । यथा गङ्गा तथा सा च कथिता नगनन्दिनि १ शालग्रामशिला यत्र जायते वहुधा तथा । माहात्म्यं चैव तस्याश्च कथितं मुनिसत्तमैः॥ २ अण्डजा उद्भिजा यत्र स्वेदजाश्च जरायुजाः । यस्या दर्शनमात्रेण पुण्यरूपास्तु पार्वति ॥ ३ उत्तरे सा तु संभूता गल्लिका तु महानदी । संस्मृता संस्मृता नूनं पापं हन्त्यगनन्दिनि ॥ ४ यत्र नारायणो देवो नित्यं तिष्ठति भूतिदः । शङ्खचक्रधरास्तस्य समीपे निवसन्ति ये ॥ ५ ते मृत्यु समनुप्राप्य दिव्यरूयाश्चतुर्भुजाः। ऋषयस्तत्र तिष्ठन्ति देवाश्चैव विशेषतः ॥ ६ रुद्रा नागास्तथा यक्षा नात्र कार्या विचारणा । तस्याः समीपे ह्येकोऽयं (प एकं हि) स्थूलो(लं) वै विष्णुरूपधृक् ॥ स्थलेऽस्मिन्वर्तते मूर्तिर्बहुरूपा सुखपदा । चतुर्विशतिमूर्तीनां जातयः सन्ति तत्र वै ॥ ८ एका वै मत्स्यरूपा च [*कूर्म रूपा तथैव च । वाराही नारसिंही च वामनी च शुभप्रदा ॥९ रामाख्या परशुरामा च] कृष्णरूया तु मुक्तिदा। अन्या च या बुध(द्धा) प्रोक्ता स्थले वै विष्णुसंज्ञके॥ कल्किनाम्नी तथा पुण्या कपिला या मयोदिता । अन्यास्तु विविधाकारा दृश्यन्ते बहुधा अपि तिष्ठन्ति मूर्तयः सर्वा नानारूपा ह्यनेकशः । सा गङ्गा महती पुण्या धर्मकामार्थमुक्तिदा ॥ १२ यस्यां भूमौ हृषीकेशो नियमेन समन्वितः । वर्ततेऽद्यापि तत्रैव मया सह न संशयः ॥ १३ भ्रूणहत्याबालहत्यागोहत्याचवि(भिर्वि)शेषतः । यस्याः स्पर्शनमात्रेण मुच्यते सर्वकिल्विषात् १४ ब्राह्मणाः क्षत्रिया वैश्याः शद्राश्चैवान्यजातयः । सर्वे ते वै विमुच्यन्ते दर्शनाद्गल्लिकाम्बुनः॥१५ इयं वेणीसमा पुण्या पापिनां तु विशेषतः । मुच्यते ब्रह्महा यत्र इतरेषां तु का कथा ॥ १६ सर्वदा सर्वकाले तु अहं गच्छामि पार्वति । तीर्थानां तीर्थराजोऽयं ब्रह्मणा भाषितः किल ॥१७ तत्र स्नानं च दानं च मुनिभिः परिकल्पितम् । आषाढे पुण्यकाले तु तत्र गच्छामि सुन्दरि १८ मासक विधिना चैव स्नानं तत्र करोम्यहम् । तारकं तत्र विशदं जपामि तु निरन्तरम् ॥ १९ अतोऽहं वैष्णवो जातो विष्णुक्षेत्रे यतो गतः । विष्णुना निर्मितं पूर्व क्षेत्रं तत्तु महत्तरम् ॥ २० वष्णवानां च गतिदं पावनं परमं स्मृतम् । भवेऽस्मिन्मानुषे जन्म दुर्लभं देवि सर्वदा ॥ २१ दुर्लभ गल्लिकातीर्थ विष्णुक्षेत्रं तु दुर्लभम् । अतो ह्यापाढमासे तु गन्तव्यं द्विजसत्तमः॥ २२ तत्र गत्वा विशेषेण शङ्खचक्रादिधारणम् । कर्तव्यं तु द्विजश्रेष्ठैः पवित्रं परमं स्मृतम् ॥ २३ शङ्खताथ(चिह्नि)तु वामे वै दक्षिणे चक्रचिह्नितम् । द्विजानां मुक्तिदं प्रोक्तं धारितव्यं प्रयत्नतः २४ ब्राह्मणेश्च विशेषेण शङ्खचक्रादिधारणम् । धृते सति महादेवि वैष्णवास्ते हि मानवाः॥ २५ न गल्लिकासमं तीर्थ न व्रतं द्वादशीसमम । न देवः केशवान्यो वै भूयो भूयो वरानने ॥ २६ गाल्लकायास्तु माहात्म्यं ये शृण्वन्ति नरोत्तमाः।इह लोके मुखं भुक्त्वा विष्णुलोकं हि यान्ति ते इति श्रीमहापुराणे पाद्म उत्तरखण्डे पार्वतीमहादेवसंवादे गल्लिकातीर्थमाहात्म्य कथनं नाम षट्सप्ततितमोऽध्यायः ॥ ६ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३५८५५ * धनुचिहान्तर्गतः पाठः फ पुस्तकस्थः। १ न.लाख्या म।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy