________________
१२१९
३ तृतीयोऽध्यायः ]
पद्मपुराणम् । शरीरं सवितुर्यस्मादाहुस्तदसते बली । राहोरपि शिरश्छिमं शौरिणाऽमृतभोजने ॥ ५ सोऽपि शार्ङ्गधरो देवः क्षिप्तः सागरगहरे । जालंधरेण वीरेण निहतः सोऽपि शंभुना ॥ ६
युधिष्ठिर उवाचकोऽसौ जालंधरो वीरः कस्य पुत्रः कुतो बली । कथं जालंधरं संख्ये हतवान्वृषभध्वजः ॥ एतत्सर्व समाचक्ष्व विस्तरेण तपोधन ॥
सूत उवाचस राज्ञा एवमुक्तस्तु कथयामास नारदः ॥
नारद उवाचशृणु भूप कयां दिव्यामशेषाघौघनाशिनीम् । ईशानसिन्धुसूनोश्च सङ्घामं परमाद्भुतम् ॥ ९ एकदा गिरिशं स्तोतुं प्रययौ पाकशासनः। अप्सरोगणसंकीर्णो देवैर्बहुभिरावृतः॥ १० गन्धर्वैरावृतो देवस्तन्त्रीशिक्षामु कोविदः । रम्भा तिलोत्तमा रामा कर्पूरा कदली तथा ॥ ११ मैदना भारती कामा सर्वाभरणभूषिताः । नतेक्यश्च तथा चान्याः समाजग्मुः सुरान्तिकम् १२ गन्धर्वयक्षसिद्धास्तु नारदस्तुम्बरुस्तथा । किंनरा मुखरा जग्मुस्तथा किंनरयोषितः॥ १३ वायुश्च वरुणश्चैव कुबेरो धनदस्तथा । यमचाग्निर्निऋतिश्च ये चान्ये देवतागणाः॥ १४ विमानसंस्थो मघवान्विमानस्थाः सुराङ्गनाः । स्ववाहनगता देवाः कैलासं प्रययुर्जवात् ॥ १५ ददृशुस्ते ततो देवाः कैलास पर्वतोत्तमम् । महीधराणां सर्वेषां पृथिव्या इव मण्डनम् ॥ १६ सर्वतः सुखदं शुद्धं सिद्धिराशिमिव स्थितम् । तत्र वृक्षाः कल्पवृक्षाः पाषाणाश्चिन्तितपदाः॥१७ पुंनागैर्नागचम्पैश्च तिलकैर्देवदारुभिः । अशोकैः पाटलैचूतैर्मन्दारैः शोभितो गिरिः॥ १८ पर्यन्तकवनामोदवाहका यत्र वायवः । पङ्गुत्वं बहुचारेण यान्ति ते मलयानिलाः ॥ १९ चाप्यः स्फटिकसोपाना ह्यगाधविमलोदकाः। वैडूर्यनालसंयुक्तसौवर्णनिभपङ्कजाः॥ २० कुमुदानां द्युतिर्यत्र राजते सर्वतोदिशम् । कहारैः शोभिता वाप्यः पिनद्धाः पद्मरागवत् ॥ २१ हरिन्मणिनिबद्धाश्च गोमेदैः सर्वतोवृताः। पद्मरागशिलाबद्धा नानाधातुविचित्रिताः॥ २२ ददृशुः सुन्दरतरं नाकाधिकविनिर्मितम् । कैलासं पर्वतश्रेष्ठं दृष्ट्वा ते विस्मयं गताः॥ २३ विमानादवतीर्णाश्च मघवा देवताश्च ताः। द्वारपालमथाऽऽगम्य नन्दिनं वाक्यमब्रवीत् ॥ २४
इन्द्र उवाचभो भो गणवरश्रेष्ठ शृणु मे वाक्यमुत्तमम् । समाज्ञापय शीघ्रं त्वं नृत्यार्थमिह(न्द्र)मागतम् ॥ ईश्वरं प्रति देवेशं सर्वदेवैः समावृतम् ॥
नारद उवाचइन्द्रस्य वचनं श्रुत्वा गिरिशं नन्दिरब्रवीत् । प्रभोऽयमागतो छत्र देवराजः पुरंदरः॥ २६ नृत्यार्यमथ तं पाहाऽऽनय शीघ्रं शचीपतिम् । प्रवेशयामास तदा नन्दी तैः सह वासवम् ॥२७ स दृष्ट्वा गिरिशं देवं तुष्टाव वृषभध्वजम् । रम्भाद्यास्तास्तदा सर्वा नर्तक्यो हरसंनिधौ ॥ मृदावीणावादित्रैर्मुदा नॉट्यं प्रचक्रिरे ।
२८ कांस्यवाद्यान्मगृहान्यान्वंशतालान्सकाहलान् । चकुस्ता नृत्यसंरम्भं स्वयं देवः पुरंदरः॥ २९
२५
१ ख. 'न । मुग। २ क. ख. मदना। ३ ८. 'द शुद्धरा । ४. गानं ।