________________
१३५६
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
माधवे मासि जाह्नव्यां कृतस्नानस्तपोधनम् । आससाद धृष्टबुद्धिः शोकभारेण पीडितः ।। २८ तद्वत्रबिन्दुस्पर्शेन गतपापो हताशुभः । कौण्डिन्यस्याग्रतः स्थित्वा प्रत्युवाच कृताञ्जलिः || २९ धृष्टबुद्धिरुवाच
भो भो ब्रह्मन्द्विजश्रेष्ठ दयां कृत्वा ममोपरि । येन पुण्यप्रभावेण मुक्तिर्भवति तद्वद ॥
कौण्डिन्य उवाच ----
शृणुष्वैकमना भूत्वा येन पापक्षयस्तव । वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता । एकादशी व्रतं तस्याः कुरु मद्वाक्यनोदितः । मेरुतुल्यानि पापानि क्षयं गच्छन्ति देहिनाम् बहुजन्मार्जितान्येपा मोहिनी समुपोषिता ॥
वसिष्ठ उवाच -
३०
३१
३२
इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नधीः । व्रतं चकार विधिवत्कौण्डिन्यस्योपदेशतः ॥ ३३ कृते व्रते नृपश्रेष्ठ गतपापो वभूव सः । दिव्यदेहस्ततो भूत्वा गरुडोपरि संस्थितः ॥ जगाम वैष्णवं लोकं सर्वोपद्रववर्जितम् । इतीदृशं रामचन्द्र उत्तमं मोहिनीव्रतम् ॥ नातः परतरं किंचित्रैलोक्ये सचराचरे ॥
३४
३५
( श्रीकृष्ण उवाच - )
यज्ञादितीर्थदानानि कलां नार्हन्ति षोडशीम् । पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् ॥ ३६ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादान्तर्गत कृष्णयुधिष्ठिरसंवादे वैशाखशुक्लमोहिन्येकादशीमाहात्म्यकथनं नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥ आदितः श्लोकानां समथ्र्यङ्काः -- ३४५२४
अथ द्विपञ्चाशत्तमोऽध्यायः ।
युधिष्ठिर उवाच
ज्येष्ठस्य कृष्णपक्षे तु किंनामन्येकादशी भवेत् । श्रोतुमिच्छामि माहात्म्यं तद्वदस्व जनार्दन || १
कृष्ण उवाच ---
साधु पृष्टं त्वया राजलोकानां हितकाम्यया । बहुपुण्यप्रदा ह्येषा महापातकहानिया || अपरा नाम राजेन्द्र अपरा पुत्रदायिनी । लोके प्रसिद्धतां याति अपरां यस्तु सेवते । ब्रह्महत्याभिभूतोऽपि गोत्रहा भ्रूणहा तथा । परापवादवादी च परस्त्रीरतिकोऽपि च ॥ अपरासेवनाद्राजन्विपाप्मा भवति ध्रुवम् । कूटसाक्ष्यं कूटमानं कूटात्कूटं करोति यः ॥ कूटवेदं पठेद्यस्तु कूटशास्त्रं तथैव च । ज्योतिषां गणकः कूटः कूटायुर्वेदको भिषक् ॥ कूटसाक्षिसमायुक्तो विज्ञेया नरकौकसः । अपरासेवनाद्राजन्पापैर्मुक्ता भवन्ति ते ॥ क्षत्रियः क्षात्रधर्म यस्त्यक्त्वा युद्धात्पलायते । स याति नरकं घोरं स्वामिधर्मवहिष्कृतः ॥ अपरा सेवनात्सोऽपि पापं त्यक्त्वा दिवं व्रजेत् । विद्यावान्यः स्वयं शिष्यो गुरुनिन्दां करोति च स महापातकैर्युक्तो निरयं याति दारुणम् । अपरासेवनात्सोऽपि सद्गतिं प्राप्नुयान्नरः ॥ महिमानमपरायाः शृणु राजन्वदाम्यहम् । मकरस्थे रवौ माघे प्रयागे यत्फलं नृणाम् ॥
७
ሪ
१० ११
१ ञ. "पोनिधिः । आ' ।
२
४
१
I
1