________________
४५ पञ्चचत्वारिंशोऽध्यायः ]
पमपुराणम् । कृष्ण उवाचकथयिष्यामि राजेन्द्र शुक्ले माघस्य या भवेत् । जया नामेति विख्याता सर्वपापहरा परा॥ ४ पवित्रा पापहनी च कामदा मोक्षदा नृणाम् । ब्रह्महत्यापहत्री च पिशाचत्वविनाशिनी ॥ ५ नैव तस्यां व्रते चीर्णे प्रेतत्वं जायते नृणाम् । नातः परतरा काचित्पापघ्नी मोक्षदायिनी ॥ ६ एतस्मात्कारणाद्राजन्कर्तव्या सा प्रयत्नतः । श्रूयतां राजशार्दूल कथा पौराणिकी शुभा ॥ ७ पङ्कजे च पुराणेऽस्या महिमा कथितो मया । एकदा नाकलोके वै इन्द्रो राज्यं चकार ह ॥ ८ देवास्तत्र सुखेनैव निवसन्ति मनोरमे । पीयूषपाननिरता अप्सरोगणसेविताः ॥ नन्दने च वने तत्र पारिजातोपसेविते । रमयन्ति रमन्त्यत्र अप्सरोभिर्दिवौकसः॥ १० एकदा रममाणोऽसौ देवेन्द्रः स्वेच्छया नृप । नर्तयामास हर्षात्स पञ्चाशत्कोटिनायकः ॥ ११ गन्धवास्तत्र गायन्ति गन्धर्वः पुष्पदन्तकः । चित्रसेनस्तु तत्रैव चित्रसेनसुतस्तथा ॥ १२ मालिनीति च नाम्ना तु चित्रसेनस्य योषिता । मालिन्यास्तु समुत्पन्ना पुष्पवन्तीति नामतः१३ पुष्पदन्तस्य पुत्रोऽसौ माल्यवान्नाम नामतः । पुष्पवन्त्याश्च रूपेण माल्यवानतिमोहितः ॥ १४ तया देव्या कटाक्षश्च माल्यवांश्च वशे कृतः । लावण्यरूपसंयुक्तं तस्या रूपं नृप शृणु ॥ १५ बाहू तस्यास्तु कामेन लम्बमानौ कृताविह । कर्णायते तु नयने रक्तान्ते घूर्णिते तथा ॥ १६ कर्णौ तु शोभनौ तस्याः कुण्डलाभ्यां नृपोत्तम । कम्बुग्रीवायुता सैव दिव्याभरणभूषिता ॥१७ पीनोन्नतो कुचौ तस्यास्तौ हेमकलशाविवे । मध्यं क्षामं च चार्वङ्गया मुष्टिग्राह्यमनुत्तमम् ॥ १८ नितम्बो विस्तृतौ चास्या विस्तीर्णा जघनस्थली । चरणौ शोभमानौ च रक्तोत्पलसमद्युती १९ ईदृश्या पुष्पवन्त्याऽसौ माल्यवानतिमोहितः । शक्रस्य परितोषाय नृत्यार्थ तो समागतौ ॥२० गायमानौ तु तो तत्र ह्यप्सरोगणसेवितौ । मदनाभिपरीताङ्गो पुष्पवन्ती च माल्यवान् ॥ २१ परस्परानुरागेण व्यामोहवशमागतो । न शुद्धगानं गायेतां चित्तभ्रमसमन्वितौ ॥ २२ बद्धदृष्टी तथाऽन्योन्यं कामबाणवशंगतौ । ज्ञात्वा लेखर्षभस्तत्र संगतं मानसं तयोः॥ २३ तालक्रियामानलोपात्तथा गीतविवर्जनात् । चिन्तयित्वा च मघवा ह्यवज्ञानं तथाऽऽत्मनः॥ कुपितश्च तयोरर्थे शापं दास्यन्निदं जगौ ॥
इन्द्र उवाचधिग्युवां पतितौ मूढावाज्ञाभङ्गकृतौ मम । युवां पिशाचौ भवनां दंपतीरूपधारिणौ ॥ मर्त्यलोकमनुप्राप्तौ भुञ्जानौ कर्मणः फलम् ॥
श्रीकृष्ण उवाचएवं मघवता शप्तावुभौ दुःखितमानसौ । हिमवन्तं गिरिं प्राप्ताविन्द्रशापाद्विमोहितौ ॥ उभौ पिशाचतां प्राप्तौ दारुणं दुःखमेव च । संतप्तमानसो तत्र हिमकृच्छ्रगतावुभौ ॥ गन्धर्वत्वमप्सरस्त्वं न जानीतो विमोहितौ । पीड्यमानौ निदाघेन देहपातकजेन च ॥ २८ न निशायां सुखं शान्ति लेभाते कर्मपीडितौ । परस्परं वदमानी चेरतुर्गिरिगहरे ॥ २९ पीड्यमानौ तु शापेन तुषारप्रभवेण तौ । दन्तघर्ष प्रकुर्वाणो रोमाञ्चितवपुर्धरौ ॥ ऊचे पिशाचः स तदा स्वां पत्नी च पिशाचिकाम् ॥
२४
क. कंजनन्तु । इ. कण्ठपाणौ । २ . अ. व । अनिक्षा।