________________
४० चत्वारिंशोऽध्यायः ] पद्मपुराणम् ।
१३२९ प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव । पारणं च ततः कुर्याद्यथासंभवमग्रतः ॥ ८२ अत ऊर्ध्वं यथेष्टं तु कारयेच्च यथाविधि । यदा तु द्वादशी स्वल्पा पारणे न भवेविज ॥ ८३ तदा रात्रौ तु कर्तव्यं पारणं मुक्तिमिच्छता । तदा न रात्रिदोषः स्यानिषिद्धं न भवेत्कचित् ८४ यदुक्तं निशि न स्नायान्महानिशि न (तु) वर्जयेत् । तत्पूर्वापरयामाभ्यां दिनवत्कर्म कारयेत् ८५ यदा भवति स्वल्पा तु द्वादशी पारणे दिने । उषःकाले द्वयं कुर्यात्मातर्माध्याह्निकं तदा ॥ ८६ द्वादशी साधिता येन नरेण भुवि सर्वदा । तस्य फेलं हि वै वक्तुं न समर्थोऽस्मि वै द्विज॥ ८७ [*सर्वपुण्याधिका देवी मुक्तिदा च सदा भवेत् । एतद्वतं महापुण्यं] द्वादश्याख्यं विशेषतः॥ साधितान्सकलान्कामान्मामुयुश्च महाजनाः । अम्बरीषादयः सर्वे ये भक्ता भुवि विश्रुताः।। ८९ द्वादशी साधयित्वा तु ते गता विष्णुसद्मनि । सत्यं सत्यं पुनः सत्यं यदुक्तं तु मया तव ।। ९० नास्ति विष्णुसमो देवो न तिथिादशीसमा । अत्र दत्तं च भुक्तं च तथा पूजादिकं च यत्र९१ तत्सर्व पूर्णतां याति पूजिते माधवे सति । किं पुनर्बहुनोक्तेन भक्तानां वल्लभो हरिः॥ ९२ स ददात्यखिलान्कामान्यावदाभूतसंप्लवम् । द्वादश्यां चैव यद्दत्तं तत्सर्व सफलं भवेत् ॥ ९३ कुरुक्षेत्रेषु यद्दत्तं निष्फलं नैव जायते । तद्वच्च द्वादशीदत्तं भवेदेवर्षिसत्तम । इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे द्वादश्येकादशीजागरणमहिमवर्णनं
नामैकोनचत्वारिंशोऽध्यायः ।। ३९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३३९११
अथ चत्वारिंशोऽध्यायः ।
शिव उवाचएकस्मिन्समये पुत्र गतोऽहं विष्णुसंनिधौ । तत्र पृष्टं मया पूर्व माहात्म्यं द्वादशीभवम् । यच्छ्रुत्वा मुनयः सर्वे भुक्त्वा भोगान्दिवं ययुः ॥
नारद उवाचकीशी स्यान्महादेव महाद्वादशिका परा । तस्या व्रते फलं किंचिद्वद सर्वेश्वर प्रभो ॥ २
विश्वेश्वर उवाचइयमेकादशी ब्रह्मन्महापुण्यफलप्रदा । ऋक्षयोगैश्च संयुक्ता कर्तव्या मुनिसत्तमैः ॥ ३ जया च विजया चैव जयन्ती पापनाशिनी । सर्वपापहराश्चैताः कर्तव्याः फलकातिभिः॥४ एकादश्यां यदा ऋक्षं शुक्लपक्षे पुनर्वसू । नाम्ना सा च जया ख्याता तिथीनामुत्तमा तिथिः॥५ तामुपोष्य नरः पापान्मुच्यते नात्र संशयः । यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणो भवेत् ॥ ६ विजया सा समाख्याता तिथीनामुत्तमा तिथिः । सहस्रगुणितं दानं तथा वै विप्रभोजनम् ॥ ७ होमस्तथोपवासश्च सहस्राधिकफलप्रदः। यदा च शुक्लद्वादश्यां प्राजापत्यं हि जायते ॥ ८ जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः । सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥ ९ प्रक्षालयति गोविन्दस्तस्यामभ्यर्चितो ध्रुवम् । यदा वै शुक्लद्वादश्यां पुप्यो भवति कर्हिचित् १०
* धनुश्चिद्वान्तर्गतः पाठः फ. पुस्तकस्थः । १ क. ख. च. ज. अ. अ. भोजयेत् । २ क. ख. च. ज. झ. म. पुण्यं । ३ क. ख. ज. झ. यस्यां ।