________________
सू. ८-४-४३०] स्वोपज्ञवृत्तिसहितम्
१७१ जहिं पुणु सुमरणु जाउं गउ तहो नेहहो कई नाउं । विणु जुज्झें न वलाहुं ॥ ४२६॥
अवश्यमो डें-डौ ।। ८।४।४२७ ॥ अपभ्रंशेवश्यमः स्वार्थे डें ड इत्येतौ प्रत्ययौ भवतः ।। जिब्भिन्दिउ नायगु वसि करहु जसु अघिन्नइं अन्नई । मूलि विणइ तुंबिणिहे अवसे सुक्कइं पण्णइं ॥ अवस न सुआहिं सुहच्छिआह ॥ ४२७ ॥
एकशसो डिः ॥ ८।४।४२८॥ अपभ्रंशे एकशश्शब्दात्स्वार्थे डिर्भवति ॥
एक्कसि सील-कलंकिअहं देज्जहिं पच्छित्ताई। जो पुणु खण्डइ अणुदिअहु तसु पच्छित्ते काई ॥ ४२८ ॥ अ-डड-डुल्लाः स्वार्थिक-क-लुक् च ॥ ८१४।४२९ ॥
अपभ्रंशे नाम्नः परतः स्वार्थे अ डड डुल्ल इत्येते त्रयः प्रत्यया भवन्ति तत्सन्नियोगे स्वार्थे कप्रत्ययस्य लोपश्च ॥
विरहानल-जाल-करालिअउ पहिउ पन्थि जं दिदउ ।।
तं मेलवि संबहिं पन्थिअहिं सोजि किअउ अग्गिढउ ।। डड । महु कन्तहो बे दोसडा ॥ डुल्ल । एक्क कुडल्ली पञ्चहिँ रुद्धी॥४२९॥
योगजाश्चैषाम् ॥ ८।४।४३० ॥ अपभ्रंशे अडॅडडुल्लानां योगभेदेभ्यो ये जायन्ते डडअ इत्यादयः प्रत्ययास्तेपि स्वार्थे प्रायो भवन्ति ॥ डडअ । फोडेन्ति जे हिअडउं अप्पणउं ॥ अत्र “किसलय" •० (८-१-२६९) इत्यादिना यलुक् ॥ डुल्लअ । चुडुल्लउ चुन्नीहोइसइ । डुल्लडड।।
सामि-पसाउ सलज्जु पिउ सीमा-संधिहिं वासु । पेक्खिवि बाहु-बलुल्लडा धण मेल्लइ नीसासु ॥
अत्रामि “स्यादौ दीर्घ-हस्वौ" (८-४-३३०)इति दीर्घः । एवं बाहुबलुल्लडउ । अत्र त्रयाणां योगः ॥ ४३० ॥