________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतार परीतं शब्दार्थ तिरस्कुर्वाणा दुर्नयतामात्मसास्कुर्वन्ति । एतावद्धि प्रमाणप्रतिहितम्, यदुत विधिमुखेन शब्दोऽर्थस्य वाचक इति, न पुनरयं नियमो यथायमस्यैव वाचको नाम्यस्य, देशकालपुरुषसंकेतादिविचित्रतया सर्वशब्दानामपरापरार्थाभिधायकत्वो पपतेः, अर्थानामप्यनन्तधर्मस्वादेवापरापरशब्दवाच्यत्वाविरोधात् , तथैवाविगामेण व्यवहारदर्शनात् , तदनिष्टौ तल्लोपप्रसङ्गात् । तस्मात् सर्वध्दनयो योग्यतया सर्वार्थ वाचकाः, वेशक्षयोपशमाचपेक्षया तु कचित् कथंचित् प्रतीतिं जनयन्ति । ततब कचिदनपेक्षितव्युत्पत्तिनिमित्ता रूढितः प्रवर्तन्ते, कचित् सामान्यज्युत्पत्तिसापेक्षाः, कचित्तत्कालवर्तिव्युत्पत्तिनिमित्तापेक्षयेति न तत्र प्रामाणिकेन नियतार्थाप्रहो विधेयः । भतोऽमी शब्दादयो यदा इतरेतराभिमतशब्दार्थोपेक्षया स्वाभिमतशब्दार्थ दर्शयन्ति, तदा नयाः, तस्यापि तत्र भावात् । परस्परवाधया प्रवर्तमानाः पुनटुर्नयरूपता भजन्ति, निरालम्बनस्वादिति । ननु च यकैकधर्मसमर्थनपरायणाः शेषधर्मतिर. स्कारकारिणोऽभिप्राया दुर्नयतां प्रतिपद्यन्ते, तदा वचनमध्येकधर्मकथनद्वारेण प्रवर्त. मानं सावधारणस्वाक्ष शेषधर्मप्रतिक्षेपकारि अलीकमापद्यते, ततश्चानन्तपाण्यासितवस्तुसंदर्शकमेव वचमं यथावस्थितार्थप्रतिपादकत्वात्सत्यम्, न चैवं वचन, प्रवृत्तिः, घटोऽयं शुक्लो मूर्त इत्याचेकैकधर्मप्रतिपादननिष्ठतया व्यवहारे शब्दप्रयोग दर्शनात् , सर्वधर्माणां योगपद्येन वक्तुमशक्यत्वात् , तदभिधायकानामप्यान. स्यात्। न चैकैकधर्मसंदर्शकस्वेऽप्यमूनि बचनान्यलीकानि वक्तुं पार्यन्ते, समस्त. शाग्दव्यवहारोच्छेदप्रसङ्गात् , तदलीकस्वे ततः प्रवृत्यसिद्धेरिति । अत्रोच्यते, इस तावद् द्वये वस्तुप्रतिपादकाः, लौकिकास्तरवचिन्तकाश्च । तत्र प्रत्यक्षादिप्रसिदमर्थमा र्थित्ववशालौकिकास्तावद् मध्यस्थभावेन व्यवहारकाले व्यपदिशन्ति-यदुत नील. मुरपलं सुगन्धि कोमलमिति, न तु तद्धर्मिगतधर्मान्तरग्रहणनिराकरणयोराद्रियन्ते, भनर्थित्वात् , तावतैव विवक्षितव्यवहारपरिसमाप्तेः । न च तद्वचनानामलीकता, शेषधर्मान्तरप्रतिक्षेपाभावात् , तत्प्रतिक्षेपका रिणामेवालीकरवात् । परः सर्व वचनं सावधारणमिति न्यायात् तेषामपि शेषधर्मतिरस्कारिस्वसिद्धर्भवतीत्यालीकतापचते इति चेत् , न, अवधारणस्य तदसंभवमात्रव्यवच्छेदे व्यापारात्। भनेकपुरुषसंपूर्ण सदसि द्वारादौ स्थितस्य किमत्र देवदत्तः समस्ति नास्तीति वा दोलायमानबुद्धः केनचिदभिधीयते- यथा देवदत्तोऽस्तीति । अत्र यद्यप्युपन्यस्तपदद्वयस्य सावधार
देशकालेति । देशकालपुरुषेषु संकेत आदिर्येषां प्रस्तावादीनां ते तथा, तेषां विचि. त्रता, तया । तथा हि- कर्कटीशब्दो मालवकादौ फलविशेष रूढः, गुर्जरादौ तु योन्यामिति । एवं कालादावपि द्रष्टव्यम् । अविगानेनेति । विगानं वचनीयता विप्रतिपत्तिरिति यावत् । सदनिष्टाविति । तस्य शब्दानामपरापरार्थाभिधायकत्वस्य, अर्थानां त्वपरापरशब्दामिधेयत्वस्य । तल्लोपः व्यवहारलोपः । सावधारणत्वाचेति । “सर्व वाक्यं सावधारणम् "-इति
For Private And Personal Use Only