________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः पलम्भन्तनविशेषसंवन्धादिद्वारेण दूषणमुद्रकदम्बकं मूर्धनि पतद् दुर्विषहं स्यात् । तथा हि - तत्तेषु कथं वर्तेत सामस्त्येन एकदेशेन वा? सामस्त्यपक्षे प्रतिविशेष परिसमाप्ततया सामान्यबहुत्वप्रसङ्गः, अनिष्टं चैतद् , एकत्वाभ्युपगमक्षतेः। एकदेशेन पुनर्यावन्तो विशेषास्तावन्तस्तदंशाः प्रसजन्ति, न चैतदस्ति, सामान्यस्य निरवयवत्वात् , सावयवत्वेऽपि पुनस्ते भिमा अभिन्ना वा ! यद्यभिन्ना विशेषाः, तभेदिनः किं नेष्यन्ते, विशेषाभावात् । भेदपशे पुनस्तेष्वपि तत्कथं वर्तेत- साम. स्स्येन एकदेशेन वेति ? तदेव चोयमलब्धपरिनिष्टमवतरति, तन्मात्यन्तभेदिनो वृत्तिः संभवति । किं च ययेकं सामान्यं भेदवत् समस्तविशेषेषु वर्तेत, तदैकविशेषोपलम्भकाले तदुपलभ्यते न वा ? यद्यायः पक्षः, तस्यैकतया सर्वत्रोपलम्भात्, च्याप्यग्रहणाभावे व्यापकग्रहणासिद्धेः निखिलतद्वयाप्यविशेषग्रहणमासज्येत, न चैतदस्ति, पुरोवर्तिविशेषस्यैव साक्षात्करणात् , शेषविशेषाणामसंनिधानात् , संनिहितविशेषनिष्टमेव तदुपलभ्यते, तस्यैव तद्वन्यजकत्वात् । इतरेषां तदभावादिति चेन, एकस्वभावस्य खण्डशो व्यञ्जनायोगात् , संनिहितविशेषव्यजितमेव तत्सर्वत्र स्वभावान्तराभावात् सर्वविशेषगतं च तद्रूपमतस्तदर्शनं केन वार्येत । अथ द्वितीयः कल्पः, तथा सति यथा एकविशेषोपलम्भसमये नोपलभ्यते, तथा विशेषोपलम्भकालेऽपि नोपलभ्येत, विशेषाभावात् , अतस्तदभाव एवोक्तः स्यात् , केवलस्योपलम्भाभावात् , उपलम्भेऽपि स्वस्वभावस्थितेर्विशेषरूपतापत्तिः, तथा चिरंतनविशेषव्यवस्थितसत्ताकं तन्नूतनविशेषोत्पादे सति कथं तेन सह संबन्धमनुभवेत् ? न तावद्विशेषान्तरेभ्यस्तदुत्पित्सु विशेषदेशं गन्तुमर्हति, निष्क्रियत्वात् , नापि तत्रैवाभवत् , विशेषोत्पादाप्राक् तद्देशे तदुपलम्भाभावात् , नापि विशेषेण सहोत्पद्यते, नित्यत्वात् , नित्यस्य चोत्पत्तिनिरोधाभावात् । अथ एतद्दोषपरिजिहीर्षया तत्सक्रियकमभिधीयते, तथापि पूर्वव्यक्तित्यागेन वा नूतनविशेषदेशमाक्रामेत् तदभावेन वा ? न तावदाद्यः पक्षः, चिरंतनव्यक्तीनां सामान्य विकलतया तत्संबन्धसाध्यबुद्धिध्वनिविरहप्रसङ्गात् , न चैतदस्ति, अपरापरविशेषोत्पादेऽपि प्राचीनव्यक्तिषु तदर्शनात् । अथ द्वितीयः कल्पः, तदप्यसंबद्धम्, निरवयवस्य पूर्वव्यक्तित्यागवैकल्येन समुत्पित्सुव्यक्तिप्रतिगमनाभावात् , सावयव. पक्षस्य पुनः प्रागेवापास्तत्वात् , नैतदभ्युपगमद्वारेण परिहारः श्रेयान् । अन्यच व्यतिरिक्तसामान्यसंबन्धाद् यदि भावाः समानाः, न स्वरूपेण, तदा सवसंबन्धाप्राग्भावाः सन्तोऽसन्तो वा। सन्तश्चेदपार्थकः सत्तासंबन्धः,अन्यथानवस्था प्रसज्येत,
तद्दर्शनमिति । सर्वव्यक्तीनां प्रत्यक्षता ।
नूतनविशेषसंबन्धादीत्यादिशब्दसूचितं दूषपमभिधातुकाम आह अन्यच्चेत्यादि । सत्वसंबन्धादिति । सत्त्वं सामान्यं भावः सत्ता जातिरिति पर्यायाः ।
For Private And Personal Use Only