________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
न्यायावतारः
Acharya Shri Kailassagarsuri Gyanmandir
७९
मेव । तथा हि- घनाकारोऽपि प्रत्यक्षपृष्ठभाविमिध्याविकल्प संदर्शित एव, विविक्त. दर्शने तत्प्रतिभासायोगात्, करचरणाशरोग्रीवादयो द्यवयवाः परस्परविभक्ता एव तत्र प्रतिभान्ति, न व्याप्याकारः, न च तेऽपि स्वांशव्यापिनः प्रतिभान्ति, तदवयवानामपीतरेतरविशकलितरूपाणां प्रतिभासता तावत् यावत्परमाणव एव प्रथन्ते, व्यापिरूपस्य विचारक्षमत्वादित्युक्तप्रायम् । नाप्यनुमानात्स्थिरस्थूरवस्तुसिद्धि:, प्रत्यक्षपरिगृहीतं हि संबन्धमासाद्यानुमानं प्रवर्तते यदा च तत्क्षणभङ्गुरविवितांशग्रहणचातुर्यमा बिश्रद् दर्शितं तदानुमानमपि तत्प्रतिबन्धमूलकं तद्गोचरमेव पारंपर्येण प्रतिष्ठापयति, स्वप्रतिभासिनो रूपस्यालीकतया तत्प्रतिष्ठापनद्वारे णैव तस्य प्रामाण्यात् । ननु च स्मरणप्रत्यभिज्ञानादीनि स्थिरस्थूरवस्तुव्यतिरेकेण नोपपद्यन्ते, पूर्वमष्टे तदभावात्, पुरुषाद्यवयविनां स्मरणात्प्रत्यभिज्ञानाच्च । नैतदस्ति तेषामलीकवासनाप्रबोधोत्थापितत्वेन प्रामाण्यायोगात् । किं च तान्यपि स्वयं वर्तमानक्षणे एव प्रकाशन्ते, विप्लववशात्तु स्वरूपमेव वासनासंपादितातीतारूपतया उयवस्यन्ति घनाकारं च तस्यासन्तमध्यारोपयन्ति, तन्न तेभ्योऽपि म्यापिवस्तुसिद्धिः । तस्माद् व्यापिनि रूपे प्रमाणानवतारात् परस्परविश्लिष्टाः परमानव एव परमार्थत इति ऋजुसूत्रः ॥
1
सौत्रान्तिकाद्यपेक्षया विरुद्धं भाषणं चतुःक्षणिकं वस्त्वादि विभाषा, गुरोश्च निष्ठायां सेट् इति अप्रत्ययः, स प्रयोजनं प्रवर्तकं वैभाषिकध्वनिनिमित्तं यस्य स वैभाषिकः । प्रयोजनम् ( पा० ५-१ - १०९ ) - इति ठञ् । प्रभाचन्द्रस्तु न्याय कुमुदचन्द्रे ' विभाषा सद्धर्मप्रतिपादको ग्रन्थविशेषस्तां विदन्ति अधीयते वा वैभाषिकाः' इत्युवाच । तथा मध्ये भवो मध्यमः मध्यान्ममण् वा इति विश्रान्तसूत्रेण मप्रत्ययः । पूर्वोत्तरक्षणासंस्पर्शी निराकारो ज्ञानक्षणस्तत्समर्थनप्रवणा वादिनोऽपि मध्यमाः । माध्यामिकध्वनिस्तु इत्थम् - मध्यमेन क्षणेन चरन्ति चरस्यर्थे इकण् । यद्वा मध्यम आद्यपुरुषविशेषस्तस्थ दर्शनं मध्यमम् तत्प्रयोजनं येषाम् पूर्ववत् ठञ्, अस्त्यर्थे वा ठच् । द्वाद्यस्वरवोतोऽस्य प्राय (?) इति पाठः ।
,
For Private And Personal Use Only
1
घनाकारोऽपीत्यादिना देशव्याप्तिं दूषयितुमुपक्रमते । स्वप्रतिभासिनः सामान्यस्य । तत्प्रतिष्ठापनद्वारेण अध्यवसायवशात्स्वलक्षणव्यवस्थापनद्वारेण । तस्य अनुमानस्य । स्मरणप्रत्यभिज्ञादीति | आदिशब्दात् संकलनाज्ञानादिग्रहः । तान्यपि स्मरणप्रत्यभिज्ञानादीनि । विष्व इति । सदृशापरापरोत्पत्तिदर्शनकृतो विभ्रमः । स्वरूपमिति । स्मरणानुगतं बोधरूपम् । वासमेति । पूर्वज्ञानजनितामुत्तरत्नाने शक्तिमाहुः । तया संपादिसंमतीतार्थरूपमाकारो येषां स्मरणादीनां तेषां भावस्तया, अतीतार्थाकारवन्ति वयं स्म इति स्मरणादीनि विकल्पयन्ति । तस्येति । स्वरूपस्य । संग्रह लोक:तत्रर्जुसूत्रनीतिः स्यात् शुद्धपर्यायसंश्रिता ।
नश्वरस्यैव मानस्य भावात् स्थितिवियोगतः ॥