________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
न्यायावतारः
,
"
प्रति सामर्थ्य न समस्ति तत् कथमसावभिधेयादिसूचने पटिष्ठः स्यात् । न च तस्याप्रामाण्ये एतच्छ्रवणादर्थसंशयं कुर्वन्ति प्रेक्षावन्तः, तद्वत्ताहाने: मिथ्याज्ञानादपि प्रवृस्यविरामप्रसङ्गाच्च । अर्चटस्त्वाह-न श्रावकोत्साहक मेतत् प्रामाण्याभावात्, तेषां चाप्रामाण्यादप्रवृत्तेः, अन्यथा प्रेक्षाव साक्षतेः, किं तर्हि प्रकरणार्थकथनावसरोपस्थित परोपन्यस्तहेत्व सिद्धतोद्भावनार्थम् । तथा हि संभवत्येवंवादी - नारब्धव्यमि - दम्, अभिधेयादिशून्यत्वात्, काकदन्तपरीक्षादिवदिति, तदनेनास्य तद्वत्ताप्रकाशकेन वचसा तद्धेतूनामसिद्धतोद्भाव्यत इति । तदयुक्ततरम्, यतो यदीदमप्रमाणमिति नाभिधेयादीनि साक्षालक्षयत् प्रवर्तयति, ततः परोपन्यस्तहेत्वसिद्धतां कथयतीति युक्तिरिक्तं पश्यामः, अप्रमाणस्याकिंचित्करत्वात्, अन्यथा प्रमाणविचारणमानर्थक्यमवति । तस्मादिदं प्रमाणभूतं सदभिधेयादीनि प्रतिपादयत् प्रेक्षावतः प्रवर्तयतीति प्रकरणादावुपन्यस्तम् । संबन्धशून्यत्वादस्य कथमर्थे प्रमाणतेति चेत्, प्रत्यक्षेऽपि कथं तर्हि सेति वाच्यम् । प्राह्यग्राहकभाव संबन्धबलादिति चेत्, अत्रापि वाच्यवाचकभावादिति ब्रूमः । स एव कथमिति चेत्, अध्यक्षेऽपि वेद्यवेदकभावः कथमिति वायम् । तदुत्पत्तितदाकारताभ्यामिति चेत्, केयं तदुत्पत्तिर्नाम । तज्जन्यतेति चेत् । प्रतिक्षणं भगुरस्दे सैव दुरुपपादेत्या चक्ष्महे तथा हि-क्षणनश्वरोऽर्थः
--
Acharya Shri Kailassagarsuri Gyanmandir
4
अभिधेयादिसूचने इंति | आस्तामभिधेयादीनां प्रतिपादने । एवंवादीति । एवं वक्ष्यमाणप्रकारेण वादवान् एवं वदनशीलो वा । तदिति तस्मादर्थे अव्ययम् । अनेनादिवाक्येनास्य शास्त्रस्य तद्वत्ता अभिधेयादिमत्ता || संबन्धशून्यत्वादित्यादि । इह यद्यपि परमार्थतो जैनानां कथंचित्तादात्म्यलक्षणः शब्दार्थयोः संबन्धः । यदाह भगवान् भद्रबाहुस्वामी -
अभिहाणं अभिगाउ होइ भिन्नं अभिन्नं च । खुरअग्गिमोयगुच्चारणम्मि जम्हा उ वयणसवणाणं ॥ १ ॥
विच्छेदो न वि दाहो न पूरणं तेण भिन्नं तु । जम्हा य मोयगुच्चारणम्मि तत्थेव पञ्चऔ होइ ॥ २ ॥ नय होइ स अन्नत्थे तेण अभिन्नं तदत्थाओं ॥ इति ॥
For Private And Personal Use Only
[ अभिधानमभिधेयाद् भवति भिन्नमभिन्नं च । ख़ुराग्मिमोदकोच्चारणे यस्मात्तु वदनश्रवणयोः || १ || विच्छेदो नापि दाहो न पूरणं तेन भिन्नं तु । यस्माद् मोदकोच्चारणे तत्रैव प्रत्ययो भवति ॥२॥ न च भवति स अन्यार्थे तेनाभिन्नं तदर्था । (छाया) ]