SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir का-टिप्पमसहित अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम्। एकदेशविशिष्टोऽर्थो नयस्य विषयो मतः ॥ २९ ॥ अनेके बहवोऽन्ता अंशा धर्मा वा आत्मानः स्वरूपाणि यस्य तदनेकाम्तात्मकम् । किं तत्ी वस्तु बहिरन्तश्च, गोचरो विषयः सर्वसंविदा समस्तसंवित्तीनाम् । अनेनानेकान्तमन्तरेण संवेदनप्रसरव्यवच्छेदं दर्शयति, भ्रान्तसंवेदनानामप्यनेकान्तो. योतनपटिष्ठतया प्रवृत्तः, केवलं केषुचिदंशेषु विसंवादकत्वादप्रमाणानि तानि संगीर्यन्ते । तदयमभिप्रायः-यदा संवेदनसामान्यमप्यनेकान्तविरहेण न प्रवर्तितुमु. स्सहते, तदा तद्विशेषणभूतं प्रमाणं एकान्ते प्रवर्तिष्यते इति दुरापास्तावकाशा एवैषा वार्ता, तथाप्यनादिमिथ्याभिनिवेशवासितान्तःकरणाः कुदर्शनविप्रलब्धबुद्धयो बहवोऽत्र विप्रतिपद्यन्ते इति सर्वप्रमाणानामनेकान्तगोचरत्वसाधकं प्रमाणमभिः धीयते। इह यत्प्रमाणं तत्परस्पराविनि ठितानेकधर्मपरिकरितवस्तुनो ग्राहकम् , तस्यैव तत्र प्रतिभासमानत्वात् , इह यद्यत्र प्रतिभाति, तदेव तद्वोचरतयाभ्युपगन्तम्यम् । तद्यथा-निरादीनवनयनप्रभवदर्शने प्रतिभासमानं पाटलतया जपाक सुमं तथैव तद्गोचरतयाभ्युपगम्यते, परस्पराविभक्तानेकस्वभावाक्रान्तमूर्तिकं च बहिरन्न वस्तु सर्वप्रमाणेषु प्रथते इति, अतस्तदेव तेषां गोचरः । न चेतरेतरविशकलितधर्मिधर्मभाववादिभिः कणभक्षाक्षपादशिष्यकैस्तावदस्य हेतोरसिद्धतादिदोषः प्रतिपादयितुं शक्यः, तदभ्युपगममन्तरेण स्वाभिप्रेतवस्तुनोऽवस्थानाभावात् । तथा हि- एकस्मिन् धर्मिणि बहवो धर्मास्ततो भिन्नतनवः कथं वर्तेरन् ? भेदाविशेषण सर्व तवृत्तिप्रसङ्गत् तत्रैव तेषां समवायामान्यत्र वर्तन्ते इति चेत्, ननु सोऽपि समवायो यधुपकार्योपकारकभावच्यतिरेकेणापि भवति, ततः सर्वत्राविशेषण प्रसज्येत, तदभावाविशेषात् । अस्त्येवोपकार्योपकारकभाव इति चेत् , हन्त हतोऽसि अनेकोपकारकस्यानेस्वभावताप्राप्ते. :, तद्विरहेऽनेकोपकारकत्वाभावात् । न हि येन स्वभावेनैकस्योपकरोति तेनैव द्वितीयस्य, तस्य तत्रैवोपयुक्तत्वात् , द्वितीयोपकारकस्वभावस्य तदुपमर्दनद्वारेणोत्पत्तेः, इतरथैकमेवोपकुर्वस्तिष्टेत् , तदेकरवभावत्वात् । भिन्नाभिः शक्तिभिरुपकरोति न भिझैः स्वभावैः, तेन नानेकान्त इति चेत् , तास्तर्हि कयं वर्तन्ते इति वाच्यम्। समवायाद् इत्युत्तरेऽसावप्युपकार्योपकारकभावमन्तरेण कथं न सर्वत्र इति प्राचीनं चोथं पश्चालग्नमनुधावति । उपकार्योपकारक. भावाभ्युपगमे पुनरप्यनेकस्वभावताप्रदर्शितयुक्तः पुनः शक्त्युपकारकभिन्नशक्ति निरादीनवेति । आदीनवो दोषः । इतरेतरेत्यादि । विविधानि शकलानि येषो तानि विशकलामि, तामि करोतीति इनि विशकल्यन्ते पृथक्रियन्ते स्मेति कर्मणि क्तः, विविधानि शकलानि संजातानि येषामिति तारकादेराकृतिगणत्वात् इतप्रत्ययो वा, तत इतरेतरं विक्षकलिताविति विशेषणसमासे तेषां धर्मधर्मिभावं वदन्तीत्येवंशीलास्तैः। For Private And Personal Use Only
SR No.010648
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherJain Shwetambar Conference Mumbai
Publication Year
Total Pages110
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy