________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः बुद्धादिशिष्यकैरुपन्यस्यमानाः सर्व एव हेतवः, तद्यथा- एकान्तेन अनित्यः शब्दो नित्यो वा, सत्वात् , उत्पत्तिमत्वात् , कृतकत्वात् , प्रत्यभिज्ञायमानत्वात्- इत्यादयो विवक्षयासिद्धविरुद्धानकान्तिकता स्वीकुर्वन्ति इत्यवगन्तव्यम् । तथा हि- अनित्यकान्ते तावदसिद्धाः सर्व एव हेतवः, चाक्षुषत्ववत् तेषां ध्वनावविद्यमानत्वात् , अस. दादिव्यवच्छेदेनालीकसंवृति विकल्पितत्वात्, पारमार्थिकत्वे स्वेकस्यानेकरूपापस्यानेकान्तवादापत्तेः, कल्पनारचितसत्ताकानां च सर्वशक्तिविरहरूपतया निःस्वभाव. स्वात् , तथापि तेषां साधनत्वे साध्यमपि निःस्वभावमिति खरविषाणं शशविषाणस्य साधनमापद्यत इति शोभनः साध्यसाधनव्यवहारः। सर्व एवायमनुमानानु. मेयव्यवहारो बुद्धथारूढेन धर्मधर्मिन्यायेन न बहिः सदसत्वमपेक्षते, तेनायमदोष इति चेत् , एवं तर्हि चाक्षुषत्वमपि शब्दे बुद्धयाध्यारोप्य हेतुतयोच्यमानं नासिद्धतयोद्भावनीयम् , विशेषाभावात् । अचाक्षुषत्वव्यवच्छेदन चाक्षुषत्वं बुद्धयाध्यारोपयितुं पार्यते, न यथा कथंचित् , न चासौ शद्धेऽस्ति, अचक्षुह्यत्वात् तस्य, तेनायमदोष इति चेत्, कोऽयमचाक्षुषत्वव्यवच्छेदो नाम, व्यवच्छेदमात्रं नीरूपं व्यवच्छिन्नं वा स्वलक्षणं, व्यवच्छेदिका वा बुद्धिः स्वांशमग्नापि बहिर्वस्तुग्रहणरूपतया प्लवमाना, नापरो वस्तुधर्मो यत्र भेदाभेदविकल्पद्वारेण दूषणं दिसुर्भवानिति चेत् , तर्हि स शद्धे नास्ति इति कैषा भाषा, एवं हि नभःपुण्डरीक तत्र नास्तीति सस्वादिकमपि कल्पयितुं न शक्यमिति प्रसज्येत । किं च । ते साधनधर्मा धर्मिणि भवन्तोऽपि न भवदर्शने प्रतीतिमारोहन्ति, प्रत्यक्षस्य विकल्पविकलतया धर्मनिर्णयशून्यत्वात् , तदुसरकालभाविन्या वासनाबोधजन्याया विकल्पबुद्धेः स्वांशग्रहणपर्यवसितशरीरत्वेन
कुत्सिता अल्पा वा शिष्याः शिष्यकाः प्रशस्तपादोद्दयोतकरधर्मकीतीश्वरकृष्णादयस्तैः। सत्वादिस्यादि । यथासंभवं नित्यानित्यत्वयोरमी हेतवो योज्याः । तथा हि-- सत्त्वं स्वाभिप्रायेणानित्यत्वे च साध्ये हेतुः, उत्पत्तिमत्त्वं कृतकत्वं चानित्यत्वे एव, प्रत्यभिज्ञायमानत्वं तु नित्यत्वे एवेति । असदादीति । आदिशब्दादनुत्पन्नत्वादिपरिग्रहः। अनिरूपिततत्त्वार्था प्रतीतिः संवृतिर्मता। सा च यद्यपि सर्वापि अलीकैव, तथापि अलीकेति स्वरूपविशेषणम् । यथा-एकान्तसुखदा मुक्तिरिति । असाविति अचाक्षुषत्वव्यवच्छेदः । व्यवच्छेदमात्रमित्यादि । अमुना विकल्पत्रयेण चेच्छब्दपर्यन्तेन जैन एव बौद्धाभिप्रायमाशङ्कते । नीरूपं तुच्छम् । स्वलक्षणं घटादि । अयं घटादिरचाक्षुषो न भवति, इति घटादिकमचाक्षुषेभ्यो व्यवच्छेदयन्ती विकल्पिका बुद्धिः स्वांशममापि सर्वचित्तचैत्तानामात्मसंवेदनमिति स्वज्ञानाद्वा प्राहिकापि वस्तुतो वस्तुनि विकल्पानामसंभवः, तथापि अनुभवादिजन्यत्वेन बहिरर्थग्राहकतया स्वलक्षणजलस्योपरि तरन्ती । स इति। त्रिविधोऽपि अचाक्षुषत्वव्यवच्छेदः । कैषा भाषेति । किम आक्षेपकत्वात् अकिंचित्कारीत्यर्थः । अकिंचित्करत्वमेवातिप्रसङ्गद्वारेण व्यनक्ति-एवं हीत्यादि । यथा गगनेन्दीवरं शब्दे नास्तीति सत्त्वादिकमपि तत्र मा
For Private And Personal Use Only